________________
विभाग-२, षड्दर्शनपरिक्रमः
३९१
अज्ञातकर्तृकः (११) षड्दर्शनपरिक्रमः ॥ जैन मैमांसकं बौद्धं साङ्ख्यं सै(शै )वं च नास्तिकम् । स्वं स्वं च तर्कभेदेन जानीयाद( ६ )र्शनानि षट् ॥१॥ बलभोगोपभोगानामुभयोर्दानलाभयोः। अन्तरायस्तथा निद्रा भीरज्ञानं जुगुप्सनम् ॥२॥ हासो रत्यरती राग द्वेषाववा वि )रति( :)स्मरः । शोको मिथ्यात्वमेतेऽष्टादश दोषा न यस्य सः ॥३॥ जिनो देवो गुरुः सम्यक् तत्त्वज्ञानोपदेशकः । ज्ञान-दर्शन-चारित्राण्यपवर्गस्य वर्तिनः ( वर्तनी) ॥४॥ स्याद्वादश्च प्रमाणे द्वे प्रत्यक्षं चो (च) परोक्षकम् । नित्यानित्या( त्यं) जगत् सर्वं नव तत्त्वानि सप्त वा ॥५॥ जीवाजीवौ पुण्यपापे आश्रवः संवरोऽपि च । बन्धो निर्जरणं मुक्तिरेषां व्याख्याऽधुनोच्यते ॥६॥ चेतनालक्षणो जीवः स्यादजीवस्तदन्यकः । सत्कर्मपुद्गलाः पुण्यं पापं तस्य विपर्ययः ॥७॥ आश्रवः कर्मसम्बन्धः कर्मरोधस्तु संवरः। कर्मणां बन्धनाद् बन्धो निर्जरा तद्वियोजनम् ॥८॥ अष्टकर्मक्षयान्मोक्षोऽप्यन्तर्भावश्च कश्चन । पुण्यस्य संवरे पापस्याऽऽश्रवे क्रियते पुनः ॥९॥ लब्धानन्तचतुष्कस्य लोकाग्रस्थस्य चाऽऽत्मनः । क्षीणाष्टकर्मणो मुक्तिरव्यावृत्तिर्जिनोदिता ॥१०॥ सरजोहरणा भैक्ष्यभुजो लुञ्चितमूर्द्धजाः। श्वेताम्बराः क्षमाशीलाः निस्सङ्गा जैनसाधवः ॥११॥ लुञ्चिताः पिच्छकाहस्ताः पाणिपात्रा दिगम्बराः । ऊर्ध्वाशिनो गृहे दातुर्द्वितीयाः स्युजिनर्षयः ॥१२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org