________________
विभाग-२, श्रीस्याद्वादकलिका
३८९
सादित्वान्नाशित्वादालोकतमोभिधानराशियुगात्। निजसामग्योत्पादानालोकाभावता तमच्छाये ॥१३॥ चाक्षुषभावाद्रसवीर्यपाकतो द्रव्यतास्त्वनेकांतः । परिणामविचित्रत्वतदत्राप्यालोकवत्सिद्धः ॥१४॥ उपघातानुग्रहकृतिकर्मणि पौगलिकता विषपयोवत् । तत्तत्परिणतिवशतस्तत्रोत्पादव्ययध्रुवता ॥१५॥ मैत्राद्यैर्मुज्जनकं कामक्रोधादिभिः प्रयासकरम् । परमाणुमयं चित्तं परिणतिचैत्र्यात्रिकात्मकता ॥१६॥ धर्माधर्मलोकखानां तैस्तैः पुद्गलजंतुभिः । स्यात् संयोगविभागाभ्यां स्याद्वादे कस्य संशयः ॥१७॥ अलोकपुष्करस्यापि त्रिसंवलिततां भणेत् । तत्तत्संयोगविभागशक्तियुक्तत्वचैत्र्यतः ॥१८॥ व्यावहारिकालस्य मुख्यकालस्य चास्तु सा । तत्तद्भावपरावर्तस्वभावबहुलत्वतः ॥१९॥ एककर्तृकयोः पूर्वकाले क्त्वाप्रत्ययः स्थितः । स एव नित्यानित्यत्वं ब्रूतेऽर्थे चिंतयास्तु नः ॥२०॥ पीयमानं मदयति मध्वित्यादि द्विगं पदम् । स्याद्वादभेरीभांकारैर्मुखरीकुरुते दिशः ॥२१॥ अनवस्थासंशीतिव्यतिकरसंकरविरोधमुख्या ये । दोषाः परैः प्रकटिताः स्याद्वादे ते तु न सजेयुः ॥२२॥ नित्यमनित्यं युगलं स्वतंत्रमित्यादयस्त्रयो दूष्याः । तुर्यः पक्षः शबलद्वयीमयो दृष्यते केन ॥२३॥ एकत्रोपाधिभेदेन बौद्धा द्वन्द्वं क्षणे क्षणे । न विरुद्धं रूपरसस्थूलास्थूलादिधर्मवत् ॥२४॥ विनाशः पूर्वरूपेणोत्पादो रूपेण केनचित् । द्रव्यरूपेण च स्थैर्यमनेकांतस्य जीवितम् ॥२५॥ द्रव्यक्षेत्रकालभावैः स्वैः स्वत्वमपरैः परम् । भेदाभेदानित्यनित्यं पर्यायद्रव्यतो वदेत् ॥२६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org