SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३८८ विभाग- २, श्रीस्याद्वादकलिका श्री राजशेखरसूरिविरचिता ( १० ) ॥ अथ श्रीस्याद्वादकलिका ॥ षट्द्रव्यज्ञं जिनं नत्वा स्याद्वादं वच्मि तत्र सः । ज्ञानदर्शनतो भेदाऽभेदाभ्यां परमात्मसु ॥१॥ सिसृक्षा संजिहीर्षा च स्वभावद्वितयं पृथक् । कूटस्थनित्ये श्रीकंठे कथं संगतिमंगति ॥२॥ गुणश्रुतित्रयोर्व्यादिरूपतापि महेशितुः । स्थिरैकरूपताख्याने वर्ण्यमाना न शोभते ॥ ३ ॥ मीनादिष्ववतारेषु पृथग्वर्णांककर्मताः । विष्णोर्नित्यैकरूपत्वे कथं श्रद्दधति द्विजाः ॥४॥ शक्तेः स्युरंबिका वामा ज्येष्ठा रौद्रीति चाभिधाः । दशाभेदेन शाक्तेषु परावर्तं विना न ताः ॥५॥ चिदो निरन्वये नाशे कथं जन्मांतरस्मृतिः । ताथागतमते न्याय्या न च नास्त्येव सा यतः ॥६॥ इत एकनवते कल्पे शक्त्या मे पुरुषो हतः । तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ॥७॥ सुखदुःखनृदेवादिपर्यायेभ्यो भवांगिषु । गतिस्थित्यन्यान्यवर्णादिधर्मेभ्यः परमाणुषु ॥ ८ ॥ वर्णगंधरसस्पर्शैस्तैस्तैर्भिन्नाक्षगोचरैः । स्यात्तादात्म्यस्थितैः स्कंधेष्वनेकांतः प्रधुष्यताम् ॥९॥ प्रतिघातशक्तियोगाच्छब्दे पौद्गलिकत्ववित् । भेदैस्तारतरत्वाद्यैः, स्याद्वादं साधयेद् बुधः ॥१०॥ तर्कव्याकरणागमशब्दार्थालंकृतिध्वनिच्छंदः । एकत्रपादवाक्यो दृष्टविभागं युतं सर्वम् ॥११॥ स्वरादिवर्णस्यैकस्य संज्ञास्तास्ताः स्वकार्यगाः । शब्दे लिंगादिनानात्वं स्याद्वादे साधनान्यहो ॥ १२ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy