________________
३६८
विभाग-२, सर्वसिद्धान्तप्रवेशकः
अथ पुरुषः किंस्वरूप:९४ ? चैतन्यं पुरुषस्य ५स्वरूपम् । प्रकृतिपुरुषयोश्च उपभोगार्थः ९६सम्बन्धः संयोगः ९७पङ्ग्वन्धयोरिव । उपभोगश्च८ शब्दाधुपलम्भो गुणपुरुषान्तरोपलम्भश्च । आह-किमेकः पुरुषोऽनेको वा ? अनेक इत्याह । का पुनरत्र युक्तिः ? जन्म-मरण-करणानां नियमदर्शनाद् धर्मादिषु १०°प्रवृत्तिनानात्वाच्चानेकः १०१पुरुषः, स आत्मोच्यते इति ।।
अथ प्रमाणं वक्तव्यम् । तदुच्यते-प्रत्यक्षमनुमानमागमश्चेति । तत्र प्रत्यक्षम्"श्रोत्रादिवृत्तिः१०२ प्रत्यक्षम्" [ ] श्रोत्र-त्वक्-चक्षु-जिह्वा-घ्राणानां
९४. किंरूप: A ॥ ९५. स्वं रूपम् A ॥“वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते । तद्यथा-चैतन्यं पुरुषस्य स्वरूपमिति । यदा चितिरेव पुरुषस्तदा किमत्र केन व्यपदिश्यते?-पातञ्जलदर्शनयोगभाष्य १।९ । ९६. सम्बन्धः A नास्ति ॥ ९७. "पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पवन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥२१॥सांख्यका० ॥ ९८. "सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ॥३७||-साङ्ख्यका० । “तथा चाहुः उपभोगस्य शब्दाधुपलब्धिरादिर्गुणपुरुषान्तरोपलब्धिरन्तः।"-सांख्याका० युक्तिदीपिका पृ० १३९ । “प्रधानस्य पुरुषार्थौ प्रवृत्तिः । स च पुरुषार्थो द्विविधः - शब्दाधुपलब्धिरादिर्गुणपुरुषान्तरोपलब्धिरन्तश्च"माठरवृ० पृ० ७९ ॥ ९९. नियमादर्श A । नियतदर्श B । “जन्म-मरण-करणानां प्रतिनियमादयुगपत् प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥१८|| जन्मनियमात् पश्यामो बहवः पुरुषाः, यथैकस्मिन्नधिष्ठाने बहवः स्त्रियो गर्भिण्यः तत्र काश्चित् प्रसूताः काश्चित् प्रसविष्यन्ति । यद्येकः पुरुषः स्यात् एकस्यां प्रसूतायां सर्वाः प्रसवेरन् । अतः पश्यामो बहवःपुरुषाः ।....। यद्येकः पुरुषः स्यात् एकस्मिन् जीवति सर्वे जीवेरन्, एकस्मिन् मृते सर्वे म्रियेरन्, तस्मान्मरणनियमात् पश्यामो बहवः पुरुषाः । किञ्च, बधिराः, केचिन्मूकाः, केचिदमूकाः ।....। अतः कारणानियमात् पश्यामो बहवः पुरुषाः इति । अयुगपत्प्रवृत्ति(त्ते)श्च, इह लोके नानाविधा प्रवृत्तिर्दृष्टा, तद्यथा एको धर्मे, एकः कामे, एकोऽर्थे, अन्यः मोक्षे । अतः पश्यामो बहवः पुरुषा इति । इतश्च बहवः पुरुषाः त्रैगुण्यविपर्ययार्थम्, एकस्य कस्यचित् ब्राह्मणस्य त्रयः पुत्रा एकेनोत्पन्नाः तुल्यगोत्रस्वाध्यायाः । तत्र एकः सात्त्विकः, एकः राजसः, एकस्तामसः । यद्येकः पुरुषः स्यादेकस्मिन् सात्त्विके सर्वे सात्त्विकाः स्युः।....। न चैकं भवति । अतः पश्यामो बहवः पुरुषा इति । त्रैगुण्यविपर्ययाद् "वासुदेवदर्शनात् मणिसूत्रदर्शनाच्च एकः पुरुषः इति तेन (तन्न) । एवं तावत् पञ्चभिर्हेतुभिः पुरुषबहुत्वं सिद्धमित्याह ।। -[जेसलमेरस्थपुस्तकसङ्ग्रहान्तर्गता] सांख्यकारिकावृत्तिः A । पृ० ३२ ॥ १००. नानात्वादनेकः B ॥१०१. पुरुष इति A ॥१०२. वार्षगण्यस्यापि लक्षणमयुक्तमित्याहश्रोत्रादिवृत्तिरिति ।-न्या० वा० ता० पृ० १३२ । “श्रोत्रादिवृत्तिरिति वार्षगणा:"-सांख्यका० युक्तिदी० पृ० ३९ । "श्रोत्रादिवृत्तिः प्रत्यक्षमनुमानमनुस्मृतिः ।"-सिद्ध० द्वा० १३।५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org