________________
विभाग-२, सर्वसिद्धान्तप्रवेशकः
३६७
ततश्चाहङ्कारादेकादशेन्द्रियाणि-पञ्च५ बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, ८६अपरं मनः । “तथा तत एवाहङ्कारात् तमोबहुलात् पञ्च तन्मात्राणि, तद्यथा“शब्दतन्मात्रम्, स्पर्शतन्मात्रम्, रूपतन्मात्रम्, रसतन्मात्रम्, गन्धतन्मात्रमिति । एतेभ्यश्च यथाक्रमेण भूतानि आकाशवाय्वग्न्युदकभूमयः भूतसमुदायश्च शरीरवृक्षादयः ।
सत्त्वादिलक्षणं वक्तव्यमिति चेत्; तदुच्यते-प्रसाद-लाघवप्रसवाऽभिष्वङ्ग-९०प्रीतयः कार्यं सत्त्वस्य, शोष-ताप-भेद-स्तम्भोद्वेगा११ऽपद्वेषाः कार्यं रजसः, आवरण-सादन-बीभत्स-दैन्य-गौरवाणि तमसः कार्यम् ।
१९३सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः ।
गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ।" [साङ्ख्यका०-१३] एवं तावत् प्रकृतिः स्थूल-सूक्ष्मरूपेण व्याख्याता ॥
८५. पञ्च B नास्ति ॥ ८६. च एकादशं मनः A ॥ ८७. तथैकादशाद् गणात् तमो B । तुलना-"अभिमानोऽहंकारस्तस्माद् द्विविधः प्रवर्तते सर्गः । ऐन्द्रिय एकादशकस्तन्मात्रकपञ्चकश्चैव ॥२४॥ सात्त्विक एकादशकः प्रवर्तते वैकृतादहंकारात् । भूतादेस्तन्मात्रः स तामसस्तैज-सादुभयम् ॥२५I.-सांख्यका । ८८. शब्द रूप रस गन्ध स्पर्श । एतेभ्यश्च तथा क्रमेण भूतानि तथा पृथिव्याप्तेजोवाय्वाकाशादीनि भूतसमु B।तुलना-तन्मात्राणि शब्द-स्पर्श-रूप-रस-गन्धाख्यानि - सांख्यका माठरवृत्ति पृ० १०॥ ८९. प्रकाश( प्रसा)द BIप्रीत्यप्रीति-विषादात्मका: प्रकाश-प्रवृत्ति-नियमार्थाः ॥१२॥-सांख्याका।९०.धर्मप्रीत्यादयः A।एतद्विषयकेषु तत्तद्ग्रन्थान्तर्गतभागेषु प्रायः सर्वत्र 'धर्म' शब्दस्थाने 'उद्धर्ष' पाठ एवोपलभ्यते। यदि तु यथाश्रुत धर्म शब्दपाठे एव निर्बन्धः तर्हि अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् । सात्त्विकमेतद्रूपं तामसमस्माद् विपर्यस्तम्।।२३।. इति सांख्यकारिकाप्रतिपादितं धर्मं गृहीत्वा संगमनीयम् । ९१. गप्रद्वेषाः B। ९२. तुलना"सुखानां शब्द-स्पर्श-रूप-रस-गन्धानां प्रसादलाघवप्रसवाऽभिष्वङ्गोद्धर्षप्रीतयः कार्यम् । दुःखानां शोष-ताप-भेदा(दो)परस्तम्भोद्वेगाऽपद्वेषाः । मूढानां वरण-सदना-ऽपध्वंसनबैभत्स्य-दैन्य-गौरवाणीति"-नयचक्रवृत्ति पृ० १२। "प्रसाद-लाघवा ऽभिष्वङ्गोद्धर्षप्रीतयः सत्त्वस्य कार्यम् । ताप-शोष-भेद-स्तम्भोद्वेगापद्वेगा(षा) रजसः कार्यम् । दैन्याऽऽवरणसादना-ऽ(प)ध्वंस-बीभत्स-गौरवाणि तमसः कार्यम्"-तत्त्वसं० पं० पृ० २१ । न्यायकुमुदचन्द्र पृ० ३५० । ९३. नेयमार्या B प्रतौ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org