________________
३६६
विभाग-२, सर्वसिद्धान्तप्रवेशक:
दुःख-ज्ञानादिपरिणामलक्षणो जीवः । विपरीतस्त्वजीवः । मिथ्यादर्शनाऽविरति-प्रमाद-कषाय-योगा बन्धहेतवः, काय-वाङ्मनः कर्म योगः, स आश्रवः, शुभः पुण्यस्य [तत्त्वार्थसूत्र ८।१, ६।१, ६।२, ६।३] विपरीतः पापस्य। आश्रवकार्य बन्धः । आश्रवविपरीतः संवरः । संवरफलं निर्जरा। ___अथ प्रमाणं प्रत्यक्षमनुमानमागमश्चेति५ । तत्र प्रत्यक्षम्इन्द्रियमनोनिमित्तं विज्ञानं निश्चितमव्यभिचारीति ६ लौकिकं व्यवहारतः प्रत्यक्षम्, अवध्यादि निश्चयतः । अन्यथाऽनुपपन्नाल्लिङ्गालिङ्गिनि ज्ञानमनुमानम्, यथा धूमादग्निज्ञानम् । “तपसः स्वर्गो भवति" इत्यागम:७८ प्रमाणम्, निश्चिताऽविपरीतप्रत्ययोत्पादकत्वात्, चक्षुरादिवत्।
इति जैनसिद्धान्तप्रवेशकः समाप्त:७९ ।
[साङ्ख्यदर्शनम्] अथ साङ्ख्यमतप्रदर्शनायेदमुपदिश्यते । तत्र हि • प्रकृतिः पुरुषः तत्संयोगश्च • । सत्त्वरजस्तमसां२ साम्यावस्था प्रकृतिः । • ८२तस्या एव वैषम्यावस्था परिणामः । यथा.*"तस्याः प्रकृतेर्महानुत्पद्यते, महतोऽहङ्कारः
७३. "अशुभः पापस्य"-तत्त्वार्थसूत्र ६।४॥७४. तत्र प्रमाणं B॥७५. यद्यपि “प्रमाणं द्विधाप्रत्यक्षं परोक्षं च" [प्र० मी० १।१।९, १०] "विशदः प्रत्यक्षम्" [प्र० मी० १।१।१३] "अविशद: परोक्षम्, स्मृतिप्रत्यभिज्ञानोहानुमानागमास्तद्विधयः" [प्र० मी० १।२।१,२] इति प्रमाणमीमांसादिश्वेताम्बरीय-ग्रन्थेषु प्रमाणविभाग उपलभ्यते, किन्तु स अकलङ्कोपज्ञ इति प्रतीयते । श्वेताम्बराणां प्राचीनतमेषु ग्रन्थेषु तु त्रिविधत्वं प्रमाणानां बहुत्र वर्णितं दृश्यते । दृश्यतां न्यायावतारः (सिद्धसेनदिवाकरप्रणीतः) कारिका ४,५,६,७ । दृश्यतां न्यायावतारवार्तिकवृत्तिः पृ० ७७, ९९ । अनेकान्तजयपताकाटीका पृ० १४२, २१५ । ७६. चारि लौकिकं A ॥ ७७. “साध्याविनाभुवो लिङ्गात् साध्यनिश्चायकं स्मृतम् । अनुमानं तदभ्रान्तं प्रमाणत्वात् समक्षवत् ॥४॥" -न्यायावतारः ॥ ७८. इत्यागमं B ॥ ७९. समाप्तम् B नास्ति। ८०. मप A॥८१... एतदन्तर्गतः पाठः B नास्ति। "ततश्च यदृच्छामात्रत्वादङ्गीकृतपुरुषार्थयत्नार्थहानिः ।... तस्य च हानौ प्रधान-पुरुष संयोगत्रित्वपरिज्ञानार्थशास्त्रयत्ना(र्थ) हानिरपि"-नयचक्रवृत्तिः पृ० १४ ॥ ८२. तमः साम्या B | "एतेषां या समावस्था सा प्रकृतिः किलोच्यते ।"-षड्दर्शनसमुच्चय ३६ A ॥ ८३. . . एतदन्तर्गतः पाठ: B नास्ति ।। ८४. ★ ★ एतत्स्थाने A प्रतावित्थं पाठः-महान् अहङ्कारः । तुलना-प्रकृतेर्महांस्ततोऽहंकारस्तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ।।२२।।सांख्यकारिका ॥
For Personal & Private Use Only
www.jainelibrary.org