________________
विभाग-२, सर्वसिद्धान्तप्रवेशकः
३६५
भूतस्य, भूतमभूतस्य, अभूतमभूतस्य, भूतं भूतस्यति । तत्र अभूतं वर्षकर्म भूतस्य वाय्वभ्रसंयोगस्य लिङ्गम् । तथा भूतं वर्षकर्म अभूतस्य वाय्वभ्रसंयोगस्य लिङ्गम् । अभूतमभूतस्य यथा-अभूता श्यामता अभूतस्य ६९घटाग्निसंयोगस्य लिङ्गम् । भूतं भूतस्य यथा-स्यन्दनकर्म ६२सेतुभङ्गस्य । तथाऽपरमपि लिङ्गमुत्प्रेक्ष्यमनया दिशा यथा, जलप्रसादोऽगस्त्युदयस्य, ६३तथा चन्द्रोदयः समुद्रवृद्धः कुमुदविकाशस्य ६४चेत्यादि । तच्च 'अस्येदम्' इत्यादिना सूचितम्, यतो लिङ्गोपलक्षणायेदं सूत्रम्, न नियमप्रतिपादनायेति।
आह-प्रत्यक्षलक्षणं किम् ? इति चेत्, तदाह-"आत्मे-न्द्रिय-मनोऽर्थसन्निकर्षाद् यन्निष्पद्यते ६५तदन्यत्" [वै० सू० ३।१।१३] । अस्य व्याख्या-आत्मा मनसा युज्यते, मन इन्द्रियेण, ६६इन्द्रियमर्थेनेति । ततश्चतुष्टयसन्निकर्षा घटरुपादिज्ञानम्, ६८त्रयसन्निकर्षाच्छब्दे, ६९द्वयसन्निकर्षात् सुखादिषु । एवं प्रत्यक्षमपि निर्दिष्टम् ॥
७ इति वैशेषिकमतं समाप्तम् ॥
[जैनदर्शनम्] अथ जैनसिद्धान्तनुसारेण प्रमाण-प्रमेयस्वरूपावधारणायेदमुपदिश्यते । आह-यद्येवम्, ब्रूहि किं तत् प्रमाणं प्रमेयं च? इति । तत्र प्रमेयं “जीवा-ऽजीवाऽऽस्रव२-बन्ध-संवरनिर्जरा-मोक्षास्तत्त्वम्" [तत्त्वार्थसूत्र० १।४] । तत्र सुख
६१. घटादिः ॥६२. सेतुबंधस्य ABI "स्रोतोभूतानामपां स्थलान्निम्नाभिसर्पणं यत् तद् द्रवत्वात् स्यन्दनम् । कथम् ? समन्ताद् रोधः-संयोगेनाऽवयविद्रवत्वं प्रतिबद्धम्.... । यदा तु मात्रया सेतुभेदः कृतो भवति तदा.. सेतुसमीपस्थस्यावयवद्रवत्वस्य उत्तरोत्तरेषामवयवद्रवत्वानां प्रतिबन्धकाभावाद् वृत्तिलाभः । तत्र च कारणानां संयुक्तानां प्रतिबन्धेन गमने यदवयविनि कर्म उत्पद्यते तत् स्यन्दनाख्यमिति" प्र० भा० पृ० १६०-१६१ ॥ ६३. यथा A ॥६४. चेति B । “शास्त्रे कार्यादिग्रहणं निदर्शनार्थं कृतं नावधारणार्थम् । लिङ्ग चन्द्रोदय: समुद्रवृद्धः कुमुदविकाशस्य च शरदि जलप्रसादोऽगस्त्योदयस्येत्येवमादि । तत् सर्वम् 'अस्येदम्' इति सम्बन्धमात्रवचनात् सिद्धम् । प्र० भा० पृ० १०४ । इत्येवमादि इति आदि पदेन उदयादिरस्तादेलिङ्गमित्यूह्यम् । प्र० भा० व्योमवती पृ० ५७३ ॥ ६५. तत्प्रत्यक्षम् B ॥ ६६. मर्थेन A ॥ ६७. आत्म-मन-इन्द्रिया-ऽर्थानां चतुर्णां संयोगात् । ६८. आत्म-मन:श्रोत्राणां त्रयाणां संयोगात् ।। ६९. आत्म-मनसोर्द्वयोः संयोगात् । ७०. वैशेषिकतन्त्रः समाप्तः A ॥७१. किमेतत् A ॥७२. ऽऽश्रव-बन्ध-संवर-निर्जरा B॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org