________________
३६४
विभाग-२, सर्वसिद्धान्तप्रवेशक:
यत उक्तम्- "सदिति यतो द्रव्य-गुण-कर्मसु सा सत्ता" [वै० सू० १२११७] । ५'तथाऽपरं द्रव्यत्व-गुणत्व-कर्मत्वादि । तत्र द्रव्यत्वं द्रव्येष्वेव । गुणत्वं गुणेष्वेव । कर्मत्वं कर्मस्वेव । इति सामान्यपदार्थः । _ "नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः" [प्र० भा० पृ० ४] । नित्यद्रव्याणि च ५२चतुर्विधाः परमाणवो मुक्तात्मानो मुक्तमनांसि ५४च । ते ५५चात्यन्तव्यावृत्तिबुद्धिहेतुत्वाद्५६ विशेषा एव । इति विशेषपदार्थः ॥
"अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध ५"इहेति प्रत्ययहेतुः स समवायः" [प्र० भा० पृ० ५, १७१] । इति समवायपदार्थः।
वैशेषिकसिद्धान्ते प्रमाणं वक्तव्यमिति चेत्, तदुच्यते-लैङ्गिक-प्रत्यक्षे द्वे ५८एव प्रमाणे; शेषप्रमाणानामत्रैवान्तर्भावात् । तत्र लैङ्गिकं प्रमाणं दर्शयन्नाह - ५९अस्येदं कार्यम्, अस्येदं कारणं सम्बन्धि एकार्थसमवायि विरोधि चेति लैङ्गिकम् । अस्यैदं कार्यम्, यथा विशिष्टो नदीपूरो वृष्टेः । अस्येदं कारणम्, यथा मेघोन्नतिर्वृष्टरेव। सम्बन्धि द्विविधम्-६°संयोगि समवायि चेति। तत्र संयोगि यथाधूमोऽग्नेः । समवायि यथा - विषाणं गोः । एकार्थसमवायि द्विविधम्-कार्य कार्यान्तरस्य, कारणं कारणान्तरस्य चेति । तत्र कार्य कार्यान्तरस्य यथा-रूपं स्पर्शस्य । कारणं कारणान्तरस्य यथा-पाणिः पादस्य। विरोधि चतुर्विधम् - अभूतं
५२. अथा B ॥ ५३. चतुर्धा A ॥ ५४. च B नास्ति ।। ५५. चांत्यत्वव्या B॥ ५६. त्तिप्रत्ययहे A । “ते च खलु अत्यन्तव्यावृत्तिबुद्धिहेतुत्वाद् विशेषा एव"-प्र० भा० (व्योमवतीसमेत) पृ० ५५ । ५७. इहेदंप्रत्यय A । “इहेदमिति यतः कार्यकारणयोः स समवायः" वै० सू० ७।२।२६ । यद्यपि मुद्रिते प्रशस्तपादभाष्ये "इहप्रत्ययहेतुः" इत्येव पाठ उपलभ्यते, किन्तु वैशेषिकसूत्रोपस्कारे "तदुक्तं पदार्थप्रवेशाख्ये प्रकरणे अयुतसिद्धानामाधार्याऽऽधारभूतानां यः सम्बन्ध इहेति प्रत्ययहेतुः स समवायः [प्र० भा०] इति" (पृ० १९३) इति प्रशस्तपादभाष्यपाठ उद्धृतोऽस्तीति ध्येयम्।। ५८. यद्यपि "प्रत्यक्षानुमानागमाः प्रमाणानि" इति प्रमाणामीमांसायां (पृ०७) न्यायावतारवृत्तौ (पृ० ९) स्याद्वादरत्नाकरादिषु (पृ० ३१३, १०४१) च वैशेषिकसम्मतत्वेनोक्तं तथापि तद् व्योमशिवादेरेव व्याख्यापरम्परानुसारेण ज्ञेयम् (दृश्यतां प्रशस्तपादभाष्यस्य व्योमवती व्याख्या० पृ० ५५४, ५८४, ५८७) । अन्येषां तु वैशेषिकाणां प्रमाणद्वित्वमेवाभिमतमिति ध्येयम्॥५९. अस्येदं कार्यं कारणं सम्बन्ध्येकार्थसमवायि विरोधि चेति लैङ्गिकम् । वै० सू० ९।१८ ॥ ६०. संयोगि समवाय्येकार्थसमवायि विरोधि च । कार्य कार्यान्तरस्य कारणं कारणान्तरस्य विरोध्यभूतं भूतस्य भूतमभूतस्य अभूतमभूतस्य भूतं भूतस्य । वै० सू० ३।१।८ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org