________________
विभाग-२, सर्वसिद्धान्तप्रवेशकः
३६३
सङ्ख्यापरिमाण-पृथक्त्व-संयोग-विभाग-४५परत्वाऽ-परत्व-वेगैरष्टभिगुणैर्गुणवत् । इति द्रव्यपदार्थः ।
अथ गुणाः-रूप-रस-गन्ध-स्पर्शा ४६विशेषगुणाः, सङ्ख्या परिमाणानि पृथक्त्वं संयोग-विभागौ परत्वा-ऽपरत्वे इत्येते सामान्यगुणाः, बुद्धि-सुखदुःखेच्छा-द्वेष-प्रयत्न-धर्मा-ऽधर्म-संस्कारा आत्मगुणाः, गुरुत्वं पृथिव्युदकयोः, द्रवत्वं पृथिव्युदकाग्निषु, स्नेहोऽम्भस्येव, वेगाख्यः संस्कारो मूर्तद्रव्येष्वेव, आकाशगुणः शब्द इति । गुणत्वयोगाच्च गुणा इति । तथा चापान्तरालासामान्यानि-रूपत्वयोगाद् रूपम्, रसत्वादियोगाद् रसादयः । इति गुणपदार्थः ।
अथ कर्मपदार्थ:-"उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि" [वै० सू० २।१।७] कर्मत्वयोगात् कर्म । गमनग्रहणाच्च भ्रमणस्यन्दन-नमनोन्नमनाद्यवरोध:४९ । इति कर्मपदार्थः ।
"सामान्यं द्विविधम्-परमपरं च०" [प्र० भा० पृ० १६४] । तत्र परं सत्ता द्रव्य-गुण-कर्मसु ‘सत् सत्' ५१इत्यनुवृत्तिप्रत्ययकारणत्वात् सामान्यमेव ।
४५. परत्वा-ऽपरत्वैः सप्तभिर्गुणैःA।तुलना-"तस्य गुणाः संख्या-परिमाण-पृथक्त्वसंयोग-विभाग-परत्वा-ऽपरत्व-संस्काराः ।" प्र० भा० पृ० ३६ । संस्कारश्च मूर्तत्वादेव वेगाख्यः ।। प्र० भा० व्योमवती पृ० ४२७ । संख्या-परिणाम-पृथकत्व-संयोग-विभागपरत्वा-ऽपरत्व-संस्काराः मनः समवेताः ॥१५४|| सप्तपदार्थी [शिवादित्यरचिता] ॥ ४६. रूप-रस-गन्ध-स्पर्श-स्नेह-सांसिद्धिकद्रवत्व-बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-धर्माऽधर्म-भावना-शब्दा वैशेषिकगुणाः" प्र० भा० पृ० ३९ । “रूप-स्पर्श-गन्ध-रस-स्नेहाः सांसिद्धिको द्रवः । बुद्ध्यादिनवशब्दाश्च वैशेषिकगुणाः स्मृताः ॥ इति प्राच्यैः परिभाषितत्वात्"-प्र० भा० सूक्ति पृ० १६३ । इत्यादयः प्रशस्तपादभाष्यानुसारिवैशेषिकग्रन्थेषु बहव उल्लेखा दृश्यन्ते । वैशेषिकदर्शनसूत्रेषु तु नैतद्विषयकः कश्चनापि उल्लेखः । अतोऽत्र ग्रन्थकृता रूप-रस-गन्ध-स्पर्शनां चतुर्णामेव यद् विशेषगुणत्वं वर्णितं तत् प्रशस्तपादभाष्यपरम्परातो विभिन्नामन्यामेव काञ्चिदपि परम्परामाश्रित्य कृतं भवेदिति सम्भाव्यते । ४७. गुण A। ४८. तथा अन्तराल B॥४९. द्यवरोधनम् AIद्यविरोध: B॥तुलना-“अथ विशेषसंज्ञया किमर्थं गमनग्रहणं कृतमिति, न, भ्रमणाद्यवरोधार्थत्वात् । उत्क्षेपणादिशब्दैनवरुद्धानां भ्रमण-पतनस्यन्दनादीनामवरोधार्थं गमनग्रहणं कृतमिति ।" प्र० भा० पृ० १५३ । "अनवरुद्धानाम्असंगृहीतानाम्" प्र० भा० व्योमवती पृ० ६६१ । ५०. च B नास्ति ॥५१. धनुगतप्र B। “सा चाऽनुवृत्तेर्हेतुत्वात् सामान्यमेव"-प्र० भा० पृ० ४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org