________________
३६२
विभाग-२, सर्वसिद्धान्तप्रवेशक:
'वायुत्वाभिसम्बन्धाद् वायुः' [प्र० भा० पृ० १६] इति । स च अनुष्णाशीतस्पर्श-सङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वा-ऽपरत्ववेगैर्नवभिर्गुणैर्गुणवान् ३७धृति-कम्पादिलिङ्गः शब्दलिङ्गो ३८गन्धादिवियुक्तोऽनुष्णाशीतस्पर्शलिङ्गश्चेति ॥
___ "आकाशम्" इति पारिभाषिकी संज्ञा, एकत्वात् तस्य । सङ्ख्यापरिमाण-पृथक्त्व-संयोग-विभाग-शब्दैः षड्भिर्गुणैर्गुणवत् शब्दलिङ्गं चेति ।।
"कालः परापरव्यतिकर-४१यौगपद्या-ऽयौगपद्य-चिर-क्षिप्र--प्रत्ययलिङ्गः" [प्र० भा० पृ० २६] । स सङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभागैः पञ्चभिर्गुणैर्गुणवान् ।
"इत इदम्" इति यतस्तद् दिशो लिङ्गम्" [वै० सू० २।२।१२] । तद्यथाइदमस्तात् पूर्वेण इदमुत्तरेणेति । सङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभागैः पञ्चभिर्गुणैर्गुणवती, संज्ञा च पारिभाषिकी चेति ।।
___ "आत्मत्वाभिसम्बन्धादात्मा" [प्र० भा० पृ० ३०] । स च चतुर्दशभिर्गुणैर्गुणवान् । बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्नलिङ्ग-धर्मा-ऽधर्मसंस्कार-सङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभागश्चतुर्दश गुणाः ।। ___ मनस्त्वाभिसम्बन्धाद् मनः । तच्च क्रमज्ञानोत्पत्तिलिङ्ग४४
३७. अधृति A B । तुलना-"विषयस्तूपलभ्यमानस्पर्शाधिष्ठानभूतः स्पर्श-शब्द-धृतिकम्पलिङ्गः तिर्यग्गमनस्वभावो मेघादिप्रेरणाधारणादिसमर्थः ।" - प्र० भा० पृ० १८ । ३८. गन्धादियुक्तः BI "क्षितावेव गन्धः" प्र० भा० पृ० ११ ॥ ३९. स्पर्शश्चेति B ॥ ४०. "आकाश-काल-दिशामेकैकत्वादपरजात्यभावे पारिभाषिक्यस्तिस्रः संज्ञा भवन्तिआकाशः कालो दिगिति ।" प्र० भा० पृ० २३ ॥ ४१. यौगद्यचिर B ॥ ४२. प्रत्ययः सङ्ख्या A । तुलना-"कालः परापरव्यतिकर-योगपद्या-ऽयोगपद्य-चिर-क्षिप्रप्रत्ययलिङ्गः।"-प्र० भा० पृ० २६ ॥ ४३. परि B ॥ ४४. त्पत्तिलिङ्गं मनः संख्या B । “प्राणाऽपान-निमेषोन्मेष-जीवन-मनोगतिरिन्द्रियान्तरविकाराः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्चेत्यात्मलिङ्गानि"-वै० सू० ३।२।४ । “आत्मलिङ्गाधिकारे बुद्ध्यादयः प्रयत्नान्ताः सिद्धाः" -प्र० भा० पृ० ३४ । “आत्मलिङ्गेति । प्राणादिसूत्रे बुद्धिः कण्ठरवेण नोक्ता इति चेत्, सूत्रेण विनास्याः प्रत्येयत्वात्, देवदत्तबुद्ध्या विष्णुमित्रस्येच्छाद्यदर्शनेनाऽऽत्मनीच्छादिकथनेन जनकतया तत्समानाधिकरणबुद्धेः सूचितत्वात् ।"-प्र० भा० सेतु० पृ० ३८९ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org