________________
विभाग-२, सर्वसिद्धान्तप्रवेशकः
३६१
। [वैशेषिकदर्शनम्] अथ वैशेषिकतन्त्रसमासप्रतिपादनायाह-द्रव्य-गुण-कर्म-सामान्य विशेष-समवायानां तत्त्वज्ञानान्निःश्रेयसाधिगमः । तत्र नव द्रव्याणि"पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि" (वै० सू० १।१।४)।
___ तत्र पृथिवीत्वयोगात् पृथिवी । सा च द्विधा-३५नित्या चानित्या च । तत्र परमाणुलक्षणा नित्या, कार्यलक्षणा त्वनित्या । सा च चतुर्दशगुणोपेता, तद्यथारूप-रस-गन्ध-स्पर्श-सङ्ख्या -परिमाण-पृथक्त्व-संयोग-विभाग-परत्वाऽपरत्व-गुरुत्व-द्रवत्व२६-वेगैश्चतुर्दशभिर्गुणैर्गुणवती॥
"अप्त्वाभिसम्बन्धादापः" [प्र० भा० पृ० १४] । ताश्च रूप-रस-स्पर्शसङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वा-ऽपरत्व-गुरुत्व स्वाभाविकद्रवत्व-स्नेह-वेगवत्यः तासु च रूपं शुक्लमेव, रसो मधुर एव, स्पर्शः शीत एव।
"तेजस्त्वाभिसम्बन्धात् तेजः" [प्र० भा० पृ० १५] । तच्च रूप-स्पर्शसङ्ख्या -परिमाण-पृथक्त्व-संयोग-विभाग-परत्वा-ऽपरत्व-नैमित्तिकद्रवत्ववेगैरेकादशभिर्गुणैर्गुणवत् । तत्र रूपं शुक्लं भास्वरं च, स्पर्श उष्ण एवेति ।
३५.नित्याऽनित्या च क्व । तुलना-“सा तु द्विविधा-नित्या चानित्या च । परमाणुलक्षणा नित्या, कार्यलक्षणा त्वनित्या ।' प्र० भा० पृ० ४ ॥ ३६. यद्यपि 'पृथिवीत्वाभिसम्बन्धात् पृथिवी रूप-रस-गन्ध-स्पर्श-संख्या-परिणाम-पृथक्त्व-संयोग-विभाग-परत्वा-ऽपरत्वगुरुत्व-द्रवत्व-संस्कारवती' [प्र० भा० पृ० ४-५] इति सर्वेषु वैशेषिकग्रन्थेषु 'वेग' शब्दस्थाने 'संस्कार' शब्दं पठित्वा चतुर्दशत्वं पृथिवीगुणानां वर्णितम्, तथापि संस्कारभेदेषु वेगस्यैव पृथिव्यां सम्भवाद् वेग एवात्र उपात्तो ग्रन्थकृता इति बोध्यम् । यद्यपि "संस्कारस्त्रिविधो वेगो भावना स्थितिस्थापकश्च" [प्र० भा० पृ० १३६] इति प्रशस्तपादभाष्ये तदनुसारिषु च सर्वेष्वपि ग्रन्थेषु संस्कारभेदतया स्थितिस्थापकः परिगणितोऽस्ति, सोऽपि च पृथिव्यां वर्तते, किन्तु वैशेषिकसूत्रेषु कुत्रचिदपि 'स्थितिस्थापक' सूचनानुपलब्धेरस्मिन्नपि च सर्वसिद्धान्तप्रवेशकग्रन्थे कुत्रचिदपि तस्यानुल्लेखात् स्थितिस्थापको नाभिमतोऽस्य ग्रन्थकृत इत्यपि भवेत् । वेगो भावना चेति भेदद्वयमेव स्वीकुरुतेऽयं ग्रन्थकार इति प्रतीयते। तथा च भावनाया आत्मन्येव वृत्तेः अवशिष्टस्य वेगाख्यसंस्कारस्यैव पृथिव्यां वृत्तेर्वेगवत्त्वमेवात्र पृथिव्यां वर्णितमिति ufayfa International
For Personal & Private Use Only
www.jainelibrary.org