________________
३६०
विभाग-२, सर्वसिद्धान्तप्रवेशक:
तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति निगमनम् । वैधोदाहरणेऽपि* इह यदनित्यं न भवति तदुत्पत्तिधर्मकमपि न भवति, यथा आकाशम्, *न च तथाऽनुत्पत्तिधर्मकः शब्द इति, तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति २३निगमनम्।
२४संशयादूर्ध्वं भवितव्यताप्रत्ययस्तर्कः, यथा भवितव्यमत्र स्थाणुना पुरुषेण वेति।
संशय-तर्काभ्यामूर्ध्वं निश्चितः प्रत्ययो निर्णयः ॥ .. __ तिस्रः कथा:-वादो जल्पो वितण्डा । तत्र शिष्या-ऽऽचार्ययोः पक्षप्रतिपक्षपरिग्रहेण अभ्यासख्यापनाय वादकथा ॥
विजिगीषुणा सार्द्ध “छल-जाति-निग्रहस्थानसाधनोपालम्भो२५ जल्पः" (न्या० सू० १।२।२] ।।
स्वपक्षस्थापनाहीनो वितण्डा । २६अनैकान्तिकादयो हेत्वाभासाः ।। नवकम्बलो देवदत्त इत्यादिच्छलम् ।। दूषणाभासास्तु जातयः ।।
निग्रहस्थानानि पराजयवस्तूनि । तद्यथा-"प्रतिज्ञाहानिः, प्रतिज्ञान्तरम्, प्रतिज्ञाविरोधः, प्रतिज्ञासंन्यासः, हेत्वन्तरम्, अर्थान्तरम्, निरर्थकम्, अविज्ञातार्थम्, अपार्थकम्, अप्राप्तकालम्, न्यूनम्, अधिकम्, पुनरुक्तम्, अननुभाषणम्, अप्रतिज्ञानम्, अप्रतिभा, २९विक्षेपः, मतानुज्ञा, ३०पर्यनुयोज्योपेक्षणम्, ३९निरनुयोज्यानुयोगः, अपसिद्धान्तः, हेत्वाभासाश्चेति२२ निग्रहस्थानानि" [न्या० सू० ५।२।१]
___३२इति नैयायिकदर्शनं समाप्तम् ॥
२३. निगमनम् A प्रतौ नास्ति ॥ २४. तुलना-"भवितव्यमिति य ऊहः स तर्क:न्यायवार्तिक पृ० ३२६ ॥ "अनवधारणात्मक प्रत्ययः संशयः किंस्वित् इति । अवधारणात्मकः प्रत्ययः "एवमिदम्' इति निर्णयः । अयं तु संशयात् प्रच्युतः कारणोपपत्तिसामर्थ्यात्...निर्णयं चाप्राप्तो विशेषादर्शनात् ।-न्यायवार्तिक पृ० ३२७ ॥ २५. पलम्भो A ॥ २६. अनेकान्तादयो B ॥ २७. दत्तादिच्छ B ॥ २८. र्थकम् A ॥ २९. कथाविक्षेपः A ॥३०. योगोपे A ॥३१. योगानु A ॥३२. सश्चेति B ॥३३. इति A नास्ति ॥३४. कमतं स A ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org