________________
विभाग-२, सर्वसिद्धान्तप्रवेशक:
३५९
अथ कः शब्दः ? “आप्तोपदेशः शब्दः" [न्या० सू० १।१।७] । १७आप्तः खलु साक्षात्कृतधर्मा, तेन य उपदेशः क्रियते स आप्तोपदेश आगमः शब्दाख्यं प्रमाणमित्युच्यते।
किं पुनरत्रानेन प्रमाणेनार्थजातं मुमुक्षुणा प्रमेयम् ? तदुच्यते-आत्मशरीरेन्द्रिया-ऽर्थ-बुद्धि-मन:-प्रवृत्ति-दोष-प्रेत्यभाव-फल-१“दुःखाऽपवर्गास्तु प्रमेयम् [न्या० सू० १।१।९] ।
अथ संशयः-१९किंचि(स्वि)दित्यनवधारणात्मकः प्रत्ययः संशयः । तद्यथा-मन्दमन्दप्रकाशे २ स्थाणु-पुरुषोचिति(त)भूभागे 'स्थाणुः स्यात् पुरुषः स्यात्' इति ॥
अथ प्रयोजनम्-येन प्रयुक्तः प्रवर्तते तत् प्रयोजनम् ॥
अथ दृष्टान्तः-अविप्रतिपत्तिविषयापन्नोऽर्थो दृष्टान्तः, यथा २१अनित्याद्यर्थविचारे घटाद्याकाशादिरिति।
अथ सिद्धान्तः । स च चतुर्विधः, तद्यथा-सर्वतन्त्रसिद्धान्तः १, प्रतितन्त्रसिद्धान्तः २, अधिकरणसिद्धान्तः ३, अभ्युपगमसिद्धान्तश्चेति ४ ।।
__ अथावयवा:-"प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः" [न्या० सू० १।१।३२] । तत्र अनित्यः शब्दः इति प्रतिज्ञा । उत्पत्तिधर्मकत्वात् इति हेतुः । घटवत् इत्युदाहरणम् । * २२इह यद् यदुत्पत्तिधर्मकं तत् तदनित्यं दृष्टम्, यथा घटः, व्याप्तिदृ(दृ)ष्टान्तानुपातिनी* । तथा चोत्पत्तिधर्मकः शब्द इत्युपनयः ।
१७.आप्तश्च B॥"आप्तःखलु साक्षात्कृतधर्मा"-न्यायभाष्य १।१७॥ १८. दुःखसुखा A । १९. किमित्य B॥ "स्थाणु-पुरुषयोः समानं धर्ममारोहपरिणाही पश्यन् पूर्वदृष्टं च तयोविशेषं बुभुत्समानः 'किंस्वित्' इत्यन्यतरं नावधारयति तदनवधारणं ज्ञानं संशयः"न्यायभाष्य १११।२३ । 'किंस्वित्' इति विमर्शः संशयः । न्यायकलिका, पृ० ८ । "किंस्वित्' इति वस्तुविमर्शमात्रमनवधारणं ज्ञानं संशयः ।"-न्यायभाष्य १।१।१ । "किंस्वित् इति दोलायमानस्य उभयकोटिस्पृशः प्रत्ययस्याऽर्थेऽनवधारणात्मकस्य"न्यायवार्तिक-तात्पर्यटीका० पृ० ३६ ॥ २०. स्थाणुः पुरुषो वेति भूभागे B ॥ २१. अनित्य साधने साधोदाहरणत्वेन घटादेः वैधर्योदाहरणत्वेन आकाशादेश्च सर्वथौचित्यात् अनित्याद्यर्थविचारे इति पाठः रमणीय एव । दृश्यताम् न्यायभाष्य १।१।३६, ३७ । २२. ★★ एतच्चिह्नान्तर्गतः पाठः B प्रतौ नास्ति ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org