________________
३५८
विभाग-२, सर्वसिद्धान्तप्रवेशकः
अर्थोपलब्धिहेतुः प्रमाणम् । उपलब्धिश्च हानादिबुद्धिः । तच्चतुर्धा, तद्यथा"प्रत्यक्षा-ऽनुमानो-पमान-शब्दाः प्रमाणानि" [न्या० सू० १।१।३] । तत्र प्रत्यक्षम् - इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्" [न्या० सू० १।१।४] । अस्य गमनिका - इन्द्रियाणि घ्राणादीनि, अर्था घटादयो गन्धादयश्च, तेषां सन्निकर्षः सम्बन्धः, तस्मात् सन्निकर्षादुत्पन्नम्, ११नाऽभिव्यक्तम्, ततश्च साङ्ख्यमतव्यवच्छेदः । ज्ञानग्रहणात् सुखादिव्यवच्छेदः । १२तच्च शब्देन व्यपदिश्यमानं शाब्दं १२प्रसज्यते, तेनोच्यते-अव्यपदेश्यमिति । तथा तदेव ज्ञानं व्यभिचार्यपि भवति, तेनेह अव्यभिचारि इति । व्यवसायात्मकम् निश्चयस्वभावम्, ततश्च संशयज्ञानव्यवच्छेदः । प्रत्यक्षम् इति लक्ष्यनिर्देशः ।।
अनुमानम् - "तत्पूर्वकं त्रिविधमनुमानम् - पूर्ववत्, शेषवत्, सामन्यतोदृष्टं च" [न्या० सू० १।१।५] इति । तत्पूर्वकमिति प्रत्यक्षपूर्वकम् । त्रिविधमिति लिङ्गविभागः । पूर्ववदिति कारणात् कार्यानुमानम्, यथा मेघोन्नतिदर्शनाद् भविष्यति वृष्टिरिति । शेषवदिति कार्यात् कारणानुमानम्, यथा विशिष्टाद् नदीपूरदर्शनात् उपरि वृष्टो देवः इति गम्यते । सामान्यतो दृष्टं नाम यथा देवदत्तादौ गतिपूर्विकां देशान्तरप्राप्तिमुपलभ्य आदित्येऽपि समधिगम्यते ॥
"प्रसिद्धसाधात् साध्यसाधनमुपमानम्" [न्या० सू० १।१।६] । प्रसिद्धो गौः, तेन सह यत् साधर्म्य सामान्यं ककुद-खुर-विषाणादिमत्त्वम्, तस्मात् १५साधात् साध्यस्य गवयस्य साधनमुपमानम्, यथा गौः तथा गवय इति । १६किं पुनरत्रोपमानेन क्रियते ? संज्ञासंज्ञिसम्बन्धप्रतिपत्तिरुपमानार्थः ।।
७. "उपलब्धिहेतुश्च प्रमाणम् ।"-न्यायभाष्य २।१।१ । न्यायवार्तिक० पृ० १५ । "अर्थोपलब्धिहेतुः स्यात् प्रमाणं तच्चतुर्विधम् ।" षड्दर्शनसमुच्चय ॥१६॥ "अर्थोपलब्धिहेतुः प्रमाणं इति नैयायिकादयः"-न्यायावतारवृत्ति० पृ० ९ । प्रमाणमीमांसा १।१।८ ॥ ८. श्वेह बुद्धि तच्चतुर्धा तद्यथा BIश्च हानादिबुद्धिः तद्यथा A ॥९. प्रमाणेन खल्वयं ज्ञाताऽर्थमुपलभ्य तमर्थमभीप्सति जिहासति वा।"-न्यायभाष्य० ॥ १०. "गन्धरस-रूप-स्पर्श-शब्दाः पृथिव्यादिगुणास्तदर्थाः"-न्यायसूत्र० १।१।१४ । “पृथिव्यादीनि गुणाश्चेति द्वन्द्वसमासः ।"-न्यायवार्तिक पृ० २०५ ॥ ११. अभिव्यक्तम् A ॥ १२. अतश्छब्देन B ॥ १३. प्रयुज्यते A ॥ १४. यत् नास्ति B || १५. साधर्म्यतः ।। १६. किं पुनरत्रोपमानेन क्रियते? समाख्यासम्बन्धप्रतिपत्तिरुपमानार्थः - न्यायभाष्य १।१।६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org