________________
विभाग-२, सर्वसिद्धान्तप्रवेशकः
३५७
चिरन्तनजैनमुनिप्रवरप्रणीतः (८) सर्वसिद्धान्तप्रवेशकः
॥ नमः सर्वज्ञाय ॥ सर्वभावप्रणेतारं प्रणिपत्य जिनेश्वरम् । वक्ष्ये 'सर्ववि( नि )गमेषु यदिष्टं तत्त्वलक्षणम् ॥१॥ सर्वदर्शनेषु प्रमाण-प्रमेयसमुच्चयप्रदर्शनायेदैमुपदिश्यते ।
[नैययिकदर्शनम्] तत्र नैयायिकदर्शने तावत् "प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्तसिद्धान्ता-ऽवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभासच्छल-जातिनिग्रहस्थानानां तत्त्वज्ञानाद् निःश्रेयसाधिगमः" [न्यायसूत्र १।१।१] ।
__ अस्य व्याख्या-प्रणीयतेऽनेनेति प्रमाण म् । तस्य च सामान्यलक्षणम्
टिप्पणानि श्रीशङ्केश्वरपार्श्व सद्गुरुदेवांश्च भुवनविजयाख्यान् । प्रणिपत्य परमभक्त्या टिप्पणमिह तन्यते किञ्चित् ।
सर्वदर्शनसिद्धान्तेषु सम्यक् प्रवेशकतया यथार्थाभिधस्य चिरन्तनेन केनचिज्जैनमुनिप्रवरेण रचितस्यास्य सर्वसिद्धान्तप्रवेशकग्रन्थस्य तालपत्रेषु लिखितं यत् प्रतिद्वयं जेसलमेरनगरे जैनज्ञानभाण्डागारे विद्यते तदवलम्ब्य सम्पादितोऽयं ग्रन्थः । तत्रैका प्रतिविक्रमसंवत् १२०१ वर्षे लिखिता “९ १x१३" इंच प्रमिता B इति संज्ञयात्र व्यवहता । अस्यां प्रतौ दिङ्नागरचितो न्यायप्रवेशकः (पत्र १-१७), सर्वसिद्धान्तप्रवेशकः (पत्र १७४१), हरिभद्रसूरिविरचिता न्यायप्रवेशकटीका (पत्र ४२-१३४) इति ग्रन्थत्रयं विद्यते । अपरा त्वितोऽपि प्राचीना जीर्णप्राया १७ पत्रात्मिका “१२-१४ ११" इंच प्रमिता प्रतिः A संज्ञयात्र व्यवहता । एवं चA-B प्रत्योर्मध्ये ये उपयोगिनः पाठभेदास्तेऽत्र A संकेतेन B संकेतेन वोपन्यस्ताः । स्पष्टीकरणाद्यर्थमुपयोगीनि टिप्पणानि च निवेश्य सम्पादितोऽयं ग्रन्थो देवगुरुकृपाबलात्॥
१. सर्वनिगमेषु सर्वसिद्धान्तेष्विति भावः । “गमनं गमः परिच्छेद इत्यर्थः । निश्चितो गमो निगमः ।" न्यायावतारवृत्ति पृ० ७५ । "निगमाः पूर्वणिग्वेदनिश्चयाध्ववणिक्पथाः ।" हैमकोशः ॥ २. इदं मङ्गलपद्यं B प्रतौ नास्ति ॥ ३. मपदि A || ४. तत्त्वपरिज्ञानाद् A | ५. "प्रमीयतेऽनेनेति प्रमाणम्"-न्यायकलिका० पृ० १ । ६. च B मध्ये नास्ति ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org