________________
३५६
विभाग-२, स्याद्वादमुक्तावली - जैनविशेषतर्कः
साध्यधर्मिणि सद्धेतोरुपसंहरणं यथा। धूमश्चात्र प्रदेशेऽयं तस्मादुपनयः स्मृतः ॥७१॥ तत्पुनः साध्यधर्मस्य पूर्वयोगेन भाषितम् । तत्तस्मादग्निरत्रायमेतद् निगमनं स्मृतम् ॥७२॥ य एवं च स एवं तौ दृष्टान्तोपनयौ स्मृतौ । पाकस्थानं निगमनं मन्दधीसिद्धये त्रयम् ॥७३॥ चारित्रनिम्नगानाथसमुल्लासनचन्द्रमाः। भूयो भद्रं स मे दद्यात् गुरुश्चारित्रसागरः ॥७४॥ सूरिः श्रीविजयप्रभस्तपगणाधीशो नतोर्वीश्वरः, कल्याणादिमसागराह्वगुरवः प्राज्ञा यशःसागराः। तच्छिष्यस्य यशस्वतः कृतिरियं स्याद्वादमुक्तावली, तार्तीयीकतयानुमानविलसद्गुच्छोऽ( यमत्रा )प्यभूत् ॥५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org