________________
विभाग-२, स्याद्वादमुक्तावली - जैनविशेषतर्कः
३५५
यावान् कश्चिदयं स धूमनिकरः सत्येव वह्नौ भवेत्, यत्सत्वे( त्त्वे) प्रथमोऽन्वयो निगदितो यत्सत्त्वमेवोभयम् । धूमोऽत्रासति पावके भवति नो सद्यो द्वितीयोऽधुना, ज्ञातव्यो व्यतिरेक एष हि ततश्चैवान्यथा लक्षणम् ॥५९॥ प्रतिबन्धोऽविनाभावसंबन्धो व्याप्तिरिष्यते । हेतुव्याप्तिसमायोगः परामर्शः स उच्यते ॥६०॥ द्वेधानुमानं स्वार्थं च परार्थमुपचारतः । व्युत्पन्नानां तदैवेकं सहेतुवचनात्मकम् ॥६१॥ सद्धेतोर्ग्रहणं तथा स्मरणकं व्याप्तेस्तयोः संभवम्, साध्यज्ञानमतोऽनुमानमिदकं स्वार्थं सुधीभिधृतम्। साध्यत्वं(च) तथाप्रतीतमिति तत् त्रेधा श्रुते विश्रुतम्, किं त्वस्मादनिराकृतं द्वयमिदं चाभीप्सितं तत् त्रयम् ॥१२॥ साध्यधर्मविशिष्टेऽपि पक्षत्वं धर्मिणि श्रुतम् । अन्यथानुपपत्त्यैकलक्षणो हेतुरिष्यते ॥६३॥ कृशानुमानयं देशः प्रोच्यते पक्षधर्मता । हेतूदितं धूमवत्त्वादनुमानं सुधीहितम् ॥६४॥ हेतुप्रयोगतो द्वेधा तथोपपत्तिरन्वयः । अन्यथानुपपत्तिस्तु व्यतिरेकः पुरोदितः ॥६५॥ परस्मै प्रतिपाद्यत्वात् प्रत्यक्षादेः परार्थता । तथैवमनुमानस्य सर्वत्रेयं पर( रा )र्थता ॥६६॥ विशेषाद् व्युत्पादयितुमधुना मन्दमेधसः। पञ्चावयवविख्यातमनुमानमुदीरितम् ॥६७॥ प्रतिबन्धप्रतिपत्तेरास्पदं यस्य लक्षणम् । द्वेधा साधर्म्यवैधर्म्यभेदात् दृष्टान्त एव सः ॥६८॥ प्रकाश्यते साधनधर्मसत्ता तस्यां कृता साध्यसुधर्मसत्ता । साधर्म्यदृष्टान्त इति प्रदिष्टौ यत्रास्ति धूमो दहनस्तु तत्र ॥६९॥ साध्याभावे साधनस्याप्यभावो वैधोक्तेर्वै स दृष्टान्त एषः । शौचि:केशाभावतोऽस्याप्यभावो धूमस्यास्मिन् ज्ञेय एव द्रहे सः ॥७०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org