________________
३५४
विभाग-२, स्याद्वादमुक्तावली - जैनविशेषतर्कः
तस्येष्टस्य तथा प्रमाणविषयेनाबाध्यमानत्वतः, तद्वाचः प्रतिपाद्यमानसुविधेस्तेनाविरोधोदयः । मानेनापि न बाध्यते निजमतं मानाविरुद्धोदितः, ज्ञेयोऽर्हन्नयमेव विश्वविदितः श्रीवर्धमानप्रभुः ॥४८॥ चारित्रचारुमूर्तिया र्य )श्चारित्ररससागरः । चारित्रसिद्धये मे स्ताद् गुरुश्चारित्रसागरः ॥४९॥ सूरिः श्रीविजयप्रभस्तपगणाधीशो नतोर्वीश्वरः, कल्याणादिमसागराह्वगुरवः प्रज्ञा यशः सागराः । तच्छिष्यस्य यशस्वतः कृतिरियं स्याद्वादमुक्तावली, प्रत्यक्षस्तबकस्तदा समभवत् तस्यां द्वितीयोऽधुना ॥५०॥
तृतीयः स्तबकः अथ द्वितीयं प्रतिपाद्यमानास्पष्टत्वभावाभिमतं परोक्षम् । आद्ये परोक्षे हि मतिश्रुते द्वे सैद्धान्तिकास्तावदिदं वदन्ति ॥५१॥ स्मरणं प्रत्यभिज्ञानं तर्कोऽथानुमितिः श्रुतम् । परोक्षं पञ्चधा प्राहुर्भूरयः पूर्वसूरयः ॥५२॥ संस्कारबोधसंभूतमनुभूतार्थवेदनम्। तत् तीर्थकृत्प्रतिच्छन्दः स्मरणं प्रथमोदितम् ॥५३॥ मानार्पिता प्रतोतिर्या स एवानुभवः स्मृतः । संकलनं विवक्षातो वस्तुप्रत्यवमर्शनम् ॥५४॥ प्रत्यभिज्ञानमेवात्रानुभवस्मृतिहेतुकम्। सामान्यद्वयविषयं तथा संकलनात्मकम् ॥५५॥ स एवायं जिनदत्तस्तथा गोपिण्ड एष सः। तत्तज्जातीय एवायं गोसदृग्गवयस्तथा ॥५६॥ तर्कः प्रमाणमात्रेणोपलम्भानुपलम्भतः । संभवः कारणं यत्र कालत्रितयवर्तिनोः ॥५७॥ साध्यसाधनयोर्व्याप्त्याद्यालम्बनमिदं हि यत् । अन्वयव्यतिरेकाभ्यां संवेदनमिदं हि सः ॥५८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org