SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ विभाग-२, स्याद्वादमुक्तावली - जैनविशेषतर्कः ३५३ पूर्वाकारपरित्यागोत्तराकारस्य निर्मितौ । परिणामश्च कार्यत्वं मृत्स्नायां कलशो यथा ॥३७॥ उपादानादित्रितयं कारणं सद्भिरिष्यते । कार्यकारणताभावो नोक्तो ग्रन्थस्य गौरवात् ॥३८॥ उत्पत्तौ परतः स्वतश्च परतो ज्ञप्तौ प्रमाणं भवेत्, प्रत्यक्षं च परोक्षमेतदुभयं मानं जिनेन्द्रागमे । अक्षाधीनतयास्मदादिविदितं स्पष्टं तथा लौकिकम्, द्वधा तत् प्रियपारमार्थिकमिदं द्वेधा पुनः संमतम् ॥३९॥ आद्यं सांव्यवहारिकं पुनरपि द्वधेन्द्रियातीन्द्रियोत्पन्नत्वाद् द्वितयं तथापि (च) चतुर्भेदं यथाऽवग्रहः । ईहावायसुधारणादिभिरिदं जातं पुनस्तद्धितं, तत्राद्यं विकलं तथा च सकलं तद्वान् स्मृतस्तीर्थकृत् ॥४०॥ अवध्यावरणोच्छेदादवधिज्ञानमिष्यते । गुणप्रत्ययमेवाद्यं तद्रूपिद्रव्यगोचरम् ॥४१॥ चारित्रशुद्धिसंजाताद् विशिष्टावरणक्षयात् । यन्मनोद्रव्यपर्यायसाक्षात्कारि निवेदितम् ॥४२॥ तथा हि संज्ञिजीवानां मानुषक्षेत्रवत्ति (ति) नाम् । मनः पर्यायविज्ञानं मनःपर्यायसंज्ञिकम् ॥४३॥ सामग्रीतः समुद्भूतात् समस्तावरणक्षयात् । सकलं घातिसंघातविघातापेक्षमीहितम् ॥४४॥ समस्तवस्तुपर्यायसाक्षात्कारि त्रिकालतः। सर्वथा सर्वद्रव्याद्यैः केवलज्ञानमेव तत् ॥४५॥ अर्हन्नेवास्ति सर्वज्ञो निर्दोषत्वादुदीरितः। यस्तु नैवं स नैवं स्यात् यथा रथ्यापुमानसौ ॥४६॥ मानाविरोधिवाक्त्वा(क्यत्वा )त् निर्दोषोऽर्हन्निगद्यते । यस्तु नैवं स नैवं स्यात् यथा रथ्यापुमानसौ ॥४७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy