SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ विभाग-२, स्याद्वादमुक्तावली - जैनविशेषतर्कः इत्थं श्रीसमयः सरानुसुकृतं स्याद्वादवादे सदा, सूरिः श्रीविजयप्रभस्तपगणाधीशो नतोर्वीश्वरः । कल्याणादिमसागराहगुरवः प्राज्ञा यशःसागराः तच्छिष्यस्य यशस्वतः कृतिरियं स्याद्वादमुक्तावली ॥२५॥ __ - द्वितीयः स्तवकः :जीवो द्रव्यं प्रमातात्मा ज्ञातश्चोभयमानतः । सच्चैतन्यस्वरूपोऽयं पर( रिणामी स विश्रुतः ॥२६॥ कर्ता भोक्ता तनूमानः प्रतिक्षेत्रं पृथग् (क्) स्थितः । विशिष्टोऽपि पौद्गलिको दृष्टवान् दिग्विशेषणैः ॥२७॥ ज्ञानं प्रमाणं स्वपरव्यवसायीति लक्षणम् । सदसद्वस्तूपादेयहेयक्षममुदीरितम् ॥२८॥ प्रामाण्यं सन्निकर्षादेरज्ञानस्येह नोच्यते । अचेतनत्वाद्वा स्वीयनिश्चयाकरणत्वतः ॥२९॥ व्यवसायस्वभावं हि प्रमाणत्वादुदीरितम्। समारोपविरुद्धत्वात् यन्नैवं न तदीदृशम् ॥३०॥ तस्मिंस्तदध्वसायव्यवसायः शि( सि )ते शि( सि )तम् । यथावस्थितसज्ज्ञानं याथार्थ्यमपरे विदुः ॥३१॥ यद्विपरीतैककोटिनिष्टङ्कनं विपर्ययः । शुक्तिकापं हि रजतं समारोपोऽयमादिमः ॥३२॥ अनिश्चितानेककोटिस्पर्शि ज्ञानं च संशयः। स्थाणुर्वा पुरुषो वेति समारोपो द्वितीयकः ॥३३॥ किमित्यालोचनं ज्ञानं ज्ञेयोऽनध्यवसायकः । गच्छतश्च तृणस्पर्शि [पचारात् तृतीयकः ॥३४॥ द्विविधं कारणं ज्ञेयमसाधारणमादिमम्। साधारणं ततस्तावत्तत् साधकतमं स्मृतम् ॥३५॥ पूर्वाकारपरित्यागाज्जहद्वृत्तोत्तराकृतिः । उपादानकारणं तद् मृत्पिण्डाः (ण्डः) कलशस्य च ॥३६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy