________________
विभाग-२, स्याद्वादमुक्तावली - जैनविशेषतर्कः
३५१
एकविंशतिभावाः स्युर्जीवपुद्गलयोर्मताः । धर्मादीनां षोडशः स्युः, काले पञ्चदशस्मृताः ॥१३॥ उत्पादध्रौव्यनाशास्ते स्युभिन्नाभिन्नलक्षणात् । परस्परं हि सापेक्षा( :) सैवेयं त्रिपदी मता ॥१४॥ रहितः स्थितिनाशाभ्यां न चोत्पादस्तु केवलः । उत्पादध्रौव्यरहितो न नाशः केवलो मतः ॥१५॥ रहितोत्पादनाशाभ्यां नैकका केवला स्थितिः । अन्यथानुपपत्तेश्च दृष्टान्ताः कूर्मरोमवत् ॥१६॥ सर्वं जीवादिषट् (ड्) द्रव्यं गुणपर्यायसंयुतम् । अनेकान्तकलाक्रान्तं सिद्धं वस्तु त्रयात्मकम् ॥१७॥ प्रध्वस्ते कलशे शुशोच तनया मौलौ समुत्पादिते, पुत्रः प्रीतिमवाप कामपि नृपः शिश्राय मध्यस्थताम् । पूर्वाकारपरिक्षयस्तदपराकारोदयस्तद्वयाधारश्चैक इति स्थितं त्रयमतं (तः) तत्त्वं तथा प्रत्ययात् ॥१८॥ तथानेकान्ततो वस्तु भावाभावोभयात्मकम् । यथा सत्त्वं स्वरूपेण पररूपेण चान्यथा ॥१९॥ पटाद्यभावरूपश्चेद् घटोऽयं न भवेत्तदा । घटः पटादिरेव स्यात् तस्मादेष द्वयात्मकः ॥२०॥ द्रव्यक्षेत्रकालभावापेक्षयापि घटो यथा। स्वभावेन परभावाद्भिन्नस्तदुभयात्मकः ॥२१॥ अर्थक्रियाकारि तदेव वस्तु स्वद्रव्यशक्त्या हि भवेत् समर्थम् । पर्यायशक्त्या तदिहासमर्थम् सापेक्षमेतद् सहकारिराशेः ॥२२॥ विरुद्धधर्माध्यासस्तु नानेकान्तं प्रतिक्षिपेत् । गुडनागरभैषज्यान्न दोषोऽयं द्वयात्मनि ॥२३॥ चारित्रादिमसागराः समभवन् विद्यापगासागराः, येषां ध्यानवशा प्रसादमकरोत् पद्मावतीदेवता । उर्वीशा बहुशो यदीयवचनादाखेटकं तत्यजुः, ध्याता( :)श्रीगुरवो भवन्तु मम ते सद्यः सहायप्रदाः ॥२४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org