________________
३५०
विभाग-२, स्याद्वादमुक्तावली - जैनविशेषतर्कः
पू.मु. श्री यशस्वत्सागरविरचिता (७) ॥ स्याद्वादमुक्तावली ॥ ॥ जैनविशेषतर्कः ॥
प्रणम्य शङ्खेश्वरपार्श्वनाथं प्रकाशितानन्तपदार्थसार्थम् । शिशुप्रबोधाय तमस्तमोऽर्कः प्रकाश्यते जैनविशेषतर्कः ॥ १ ॥ जीवाजीवौ नभः कालौ धर्माधर्मौ विशेषतः । समस्वभावाः स्याद्वादे पदार्थाः षट् प्रकीर्तिताः ॥२॥ तत्रास्ति सामान्यविशेषकाद्यनेकात्मकश्चैव पदार्थसार्थः । एकोऽनुवृत्तिव्यतिवृत्तितोऽन्यश्चार्थक्रियाया घटनात् त्रिपद्या ॥३॥
सामान्यं द्विविधं तिर्यगूर्ध्वतादिविभेदतः ।
आद्यं साधारणं व्यक्तौ द्वितीयं द्रव्यमेव च ॥४॥
तिर्यग् (क् ) सामान्यमेवैतद् यथा गोत्वं गवां व्रजे । तल्लक्षणं प्रतिव्यक्ति तुल्या परिणतिस्तथा ॥ ५ ॥ द्रवत्यदुद्रवत्द्रोष्यत्येवं त्रैकालिकं च यत् । तांस्तांस्तथैव पर्यायान् तद्द्रव्यं जिनशासने ॥६॥ अवच्छेदक एवायं व्यतिवृत्तिर्हि लक्षणम् । विशेषोऽपि द्विप्रकारो गुणपर्यायभेदतः ॥ ७ ॥ सहोत्पन्ना गुणा द्रव्ये पर्यायाः क्रमभाविनः । पर्येत्युत्पादनाशौ च पर्यायः समुदाहृतः ॥८ ॥ पर्यायाणां गुणानां च भेदो नो धर्म्यपेक्षया । स्वरूपापेक्षया भेदः प्रोक्तोऽयं पूर्वपण्डितैः ॥९॥ स्यादव्ययमनेकान्तद्योतकं सर्वथैव यत् ।
तदीयवादः स्याद्वादः सदैकान्तनिरास ( स ) कृत् ॥१०॥ सर्वं तथान्वयि द्रव्यं नित्यमन्वयदर्शनात् । अनित्यमेतत् पर्यायैः पर्यायानुभवादिदम् ॥११॥ अनादिनिधने द्रव्ये स्वपर्यायाः प्रतिक्षणम् ।
उन्मज्जन्ति निमज्जन्ति जलकल्लोलवज्जले ॥१२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org