________________
विभाग-२, जैनस्याद्वादमुक्तावली
३४९
भिन्नार्थं लभते निरुक्तिभिर्दयापर्यायशब्देषु सः इन्द्रस्त्विन्दनतस्तथैवशकनाच्छक्रश्च तद्दर्शनम् ॥२३६॥ यथेन्द्रशक्र इत्याद्याःशब्दाभिन्नाभिधेयकाः। भिन्नशब्दत्वतः कुम्भस्तदाभासस्तुरंगवत् ॥२३७॥ पर्यायशब्देषु निरुक्तिभेदादर्थं च भिन्नं प्रवदन्ति विज्ञाः । गुणक्रियाशब्दविशेषतोऽपि तथा तदाभास इतीह वृद्धाः ॥२३८॥ एवंभूतनयः क्रियाश्रितविधेः शब्दस्य वाच्यक्रियाविष्टार्थं प्रकटीकरोति किल गौरश्वश्च तद्दर्शनम् । चेष्टाशून्यमिदं घटाख्यमिति तत्तस्माद् घटादेः क्रिया शून्यत्वात्पटवत्त्वनेन वचसाभासस्त्वदीयो भवेत् ॥२३९॥ चत्वार एते प्रथमेर्थनिरूपणस्य प्रवणत्त्वतो ये । भवन्ति चार्थोपपदे नयास्ते शेषास्त्रयः शब्दनया वदन्ति ॥२४०॥ को वा स्याद् बहुविषय : को वाऽल्पविषयो नयः । विवेचयन्ति विधिवन्नयज्ञा नयशासने ॥२४१॥ पूर्वः पूर्वो नयो यस्तु स स्यात्प्रचुरगोचरः। परः परः परिमितविषयः प्रतिपाद्यते ॥२४२॥ उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ दृष्टयः । नच तासु भवान् प्रदृश्यते प्रविरक्तासु सरित्स्विव नोदधिः ॥२४३॥ नयास्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥२४४॥ नित्यसामान्यसदभिलाप्येतरचतुष्टयी। . जात्यन्तरत्वाद् स्याद्वादे दोषपोषाय नो भवेत् ॥२४५॥ रसादयो धातव ईशवाञ्छा फला नयाः स्यात्पदलाञ्छनास्ते । प्रमाणवत्ते फलदायकाः स्युश्चारित्रसत्सागरसंप्रदिष्टाः ॥२४६॥ सूरिः श्रीविजयप्रभस्तपगणाधीशो नतेशः श्रिये, कल्याणादिमसागराह्वगुरवो विद्वद्यशः सागराः। तच्छिष्यस्य यशस्वतः कृतिरियं स्याद्वादमुक्तावली, तत्रायं स्तबको नयाद्भुतरसप्रेष्ठश्चतुर्थोभवत् ॥२४७॥ स्याद्वादसुखबोधाय प्रक्रियेयं प्रतिष्ठिता । विचाराम्बुधिबोधाय देवसूरिवचोनुगा ॥२४८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org