________________
३४८
विभाग-२, जैनस्याद्वादमुक्तावली
तन्मात्रस्य समुद्रत्वे शेषांशस्याऽसमुद्रता। समुद्रबहुता वा स्यात् तत्त्वेकास्तु समुद्रवित् ॥२२४॥ तयोश्च चैतन्यकमात्मनीतिः पर्यायवद् वस्तु च धर्मिणोः स्यात् । जीवः सुखीयो विषयाश्रितः क्षणं तृतीयभेदः खलु धर्मधर्मिणोः ॥२२५॥ उभे च सत्त्वचैतन्ये पृथक्भूते तथात्मनि । नैगमाभास एवात्र पार्थक्याद्धर्मधर्मिणोः ॥२२६॥ वैशेषिकमतं चात्र नैयायिकस्य दर्शनम् । एतद्द्वयं तथा नैगमाभासे च प्ररूपितम् ॥२२७॥ सामान्यमात्रग्रहणप्रवीणः परोपरः स्यादविशेषतोपि । तथापरामर्श इतीह विश्वमेकं प्रदिष्टः परसंग्रहोयम् ॥२२८॥ सत्तैव तत्त्वं न पुनर्विशेषा अद्वैतवादिप्रकाराश्च सांख्याः । एते तदाभासतया हि विज्ञा एकान्तवादात्परसंग्रहस्य ॥२२९॥ . द्रव्यत्वमाश्रित्य तदन्तरालव्यक्त्याश्रितं तेषु तदीयभेदाः । तथा परःसंग्रह एषु नागनिमीलिकान्द्रागवलम्ब्यमानः ॥२३०॥ द्रव्यत्वमेकं सकलं हि जानन् तेषां विशेषान्खलु निह्ववानः । तथातदाभास इतीरितः स्यात् सपर्ययत्वस्य तथाऽविशेषात् ॥२३१॥ अर्थांस्तथासंग्रहसंगृहीतात्तथापरामर्शविशेष एषः।। तानेवयोयं प्रकटीकरोति नयो नयज्ञैर्व्यवहारनामा ॥२३२॥ द्रव्यं हि यत्सत् किल पर्ययो वा, भासः पुनस्तस्य सुधीभिरुक्तः । निदर्शनं नास्तिकदर्शनं तै, न्यिं जगद्भूतचतुष्टयैक्यं ॥२३३॥ पर्यायार्थिक एवाय-मृजुसूत्रस्तथादिमः। शब्दः समभिरूढश्चेत्येवंभूतश्चतुर्थकः ॥२३४॥ अतीतानागतवर्तमानसमये कौटिल्यवैकल्पतो, द्रव्यं प्राञ्जलमर्पयत्यविरतं पर्यायमानं नवा । संप्रत्यस्ति सुखादिरेवहितादाभासोप्यसौ सौगतः, तत्सर्वं क्षणिकं तथागतगुणं द्रव्यापलापीश्रुतः ॥२३५॥ शब्दाख्यश्च नयोध्वनेरपि भवेत्कालादितोर्थस्यभित् स्वर्णाद्रिस्त्वभवद्भविष्यतिभवत्पर्यायतीर्थाभिदा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org