________________
विभाग-२, जैनस्याद्वादमुक्तावली
३४७
औदासीन्यपरायणास्तदपरे चांशा भवेयुर्नया, श्चेदेकान्तकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्नयाः ॥२१३॥ स्वाभिप्रेतादथांशाच्च सद्यस्तव्यतिरेकतः । इतरांशापलापी यो नयाभासः स उच्यते ॥२१४॥ अन्यदेव हि सामान्यमभिन्नज्ञानकारणं । विशेषोप्यन्य एवेति मन्यते नैगमो नयः ॥२१५॥ सद्रूपतानतिक्रान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्वं निगृह्णन् संग्रहो मतः ॥२१६॥ व्यवहारस्तु तमिव प्रतिवस्तु व्यवस्थिति तथैव दृश्यमानत्वाद् व्यापारयति देहिनः । तत्रर्जुसूत्रनीतिः स्याच्छुद्धपर्यायसंश्रिता नश्वरस्यैवभावस्य भावात् स्थितिवियोगतः ॥२१७॥ विरोधिलिंगसंख्यादि-भेदाद्भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥२१८॥ तथाविधस्य तस्यापि वस्तुनः क्षणवर्तिनः । ब्रूते समधिरुढस्तु संज्ञाभेदेन भिन्नताम् ॥२१९॥ एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोभिमन्यते ॥२२०॥
तत एव परामर्शाभिप्रेतधर्मावधारणात्मकतयाऽशेषधर्मतिरस्कारेण प्रवर्तमानो दुर्नयसंज्ञामश्नुते नैगमनयदर्शनानुसारिणौ नैयायिकवैशेषिको संग्रहाभिप्रायप्रवृत्ताः सर्वेप्यद्वैतवादाः सांख्यदर्शनं च व्यवहाररूपानुपपत्तिप्रायश्चार्वाकदर्शनं ऋजुसूत्रोक्तप्रवृत्तबुद्धयस्तथागताः शब्दादिनयावलम्बिनो वैयाकरणादयः ॥
द्रव्यं पुरोक्तं हि तदेव सोर्थो द्रव्यार्थिकोयं त्रिविधः प्रदिष्टः । स्वार्थैकदेशस्य तथाविधस्य वस्त्वंशतायाश्च तथैव तत्त्वात् ॥२२१॥ मुख्यामुख्यस्वरूपेण धर्मयोर्धर्मिणोस्तयोः । विचक्षणं च तेनैकगमो नैगम उच्यते ॥२२२॥ नायं वस्तु न वा वस्तु वस्त्वंशः कथ्यते बुधैः । नासमुद्रः समुद्रो वा समुद्रांशो यथैव हि ॥२२३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org