SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ विभाग-२, जैनस्याद्वादमुक्तावली ३४६ विषयाभास एवात्र सामान्योभयसंज्ञितम् । फलाभासस्तथाभिन्न भिन्नं मानादुदीरितम् ॥२०२॥ ददाति सेवया सम्यक्सागरः सागरोद्भवम् । मया रत्नत्रयं प्राप्तं गुरुश्चारित्रसागरात् ॥२०३॥ सूरिः श्रीविजयप्रभस्तपगणाधीशो नतेशः श्रिये कल्याणादिमसागराह्वगुरवो विद्वद्यशः सागराः । तच्छिष्यस्य यशस्वतः कृतिरियं स्याद्वादमुक्तावली विज्ञातस्तबकःप्रमेयविषयस्तस्यां तृतीयोप्यभूत् ।।२०४॥ - चतुर्थः स्तबकः :श्रुतप्रमाणाद्विषयीकृतस्य चार्थस्य योऽशः प्रकटोऽपि येन । अंशस्य तस्मादितरस्य चौदासीन्यादभिप्रायविशेष एषः ॥२०५॥ जावइया वयणपहा तावइया चेव हुंति नयवाया । जावइया नयवाया तावइया चेव परसमया ॥२०६॥ नयः प्रसिद्धः प्रतिपत्तुरेव स्वाथैकदेशव्यवसायकत्वात् । सव्यासतोऽनेकविकल्पकल्पः समासतोयं द्विविधः प्रदिष्टः ॥२०७॥ द्रव्यार्थिकनयस्त्वेकोऽन्यः पर्यायार्थिकस्तथा । निश्चयो व्यवहारस्तु शुद्धाशुद्धभिदा द्विधा ॥२०८॥ नैगमः संग्रहोन्यश्च व्यवहारस्तृतीयकः । द्रव्यार्थिकनयस्यैते भेदाः प्रोक्ता अमी त्रयः ॥२०९॥ द्वितीयस्तु चतुर्भेदः ऋजुसूत्रश्च शब्दभाक् । समभिरूढ एव स्यादेवंभूतश्चतुर्थकः ॥२१०॥ अमी सप्त नयाः प्रोक्ताः श्रीमत्स्याद्वादवादिभिः । प्रमाणनयसंसिद्धं श्रीमत् स्याद्वादशासनम् ॥२११॥ अहो चित्रं चित्रं तव चरितमेतन्मुनिपतेः, स्वकीयानामेषां विविध विषयव्याप्तिवशिनाम् । विपक्षाक्षेपाणां कथयसि नयानां सुनयतां, झविपक्षक्षेतृणां पुनरिह विभो दृष्टनयताम् ॥२१२॥ निःशेषांशजुषां प्रमाणविषयीभूतं समासेदुषां, वस्तूनां नियतांशकल्पनपराः सप्तश्रुताः संगिनः । Jain Education International For Personal Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy