________________
विभाग-२, जैनस्याद्वादमुक्तावली
३४५
पक्षाभासप्रभेदाश्च बहुशो बहुधोदिताः। सोदाहरणतस्ते तु द्रष्टव्या वृत्तितस्तथा ॥१८९॥ हेतुस्थाननिवेशात्त हेत्वाभासा अहेतवः । असिद्धश्च विरुद्धश्चानैकान्तिक इमे त्रयः ॥१९०॥ अन्यथानुपपत्तिस्तु यस्य मानेन नो भवेत् । सोऽसिद्धो विदितो द्वेधोभयान्यतरभेदतः ॥१९१॥ असिद्धभेदा बहवः पञ्चविशंति भेदिनः । सविस्तरं विशेषस्तु विज्ञेयो वृत्तितः खलु ॥१९२॥ परिणामी पुनः शब्दश्चाक्षुषत्वात्तथादिमः। अचेतना हि तरवो द्वितीयः सुगतेरितः ॥१९३॥ विकल्पाद्धर्मिणः सिद्धिः क्रियते कारणादतः । द्वेधाविधर्मिणः सिद्धि विकल्पात्ते समागताः ॥१९४॥ विरुद्धस्तु भवेद्यस्य सैव साध्यविपर्ययात् ।। अनित्यो प्रत्यभिज्ञानादिमत्वात् पुरुषोप्ययम् ॥१९५॥ अवान्तरप्रभेदा ये ज्ञेयास्ते वृत्तितो भृशं । यथा पक्षविपक्षैकदेशवृत्तिविभेदतः ॥१९६॥ यस्य संदिह्यते सैव सोऽनैकान्तिक उच्यते । द्वेधा निर्णीतं संदिग्ध तद्युग्विपक्षवृत्तिकः ॥१९७॥ नित्यः शब्दः प्रमेयत्वादाद्यभेदो भवेदयम् । नैयायिकैस्तथोपाधिरुक्तोऽन्यः प्रतिपाद्यते ॥१९८॥ दृष्टान्ताभास एवायं, नवधापि द्विधा पुनः । अन्वयव्यतिरेकाभ्यां, नवभेदा भवन्ति ते ॥१९९॥ अपौरुषेयः शब्दोत्राऽमूर्तत्वाद् दुःखवत्स्मृतः । निदर्शनानि दृष्टान्ताभासे ज्ञेयानि शास्त्रतः ॥२००॥ शब्दोयं परिणामवानुपनयाभासस्तु कार्यत्वतस्तस्मिन्नेव फले तथा निगमनाभासस्तु शब्दस्तथा। तत्रानाप्तभवाहिचित्प्रवचनाभासश्च संख्यादितिः, प्रत्यक्षं प्रवदन्ति मानमपरे जातो द्वितीयस्तथा ॥२०१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org