________________
३४४
विभाग- २, जैनस्याद्वादमुक्तावली
विपरीतास्तदाभासाः प्रमाणादिस्वरूपतः । स्वरूपसंख्या विषयफलेभ्यः प्रतिपादिताः ॥ १७७॥
स्वरूपाभास इत्येवं प्रमाणाभास उच्यते । अनुपपत्तेः स्वपरव्यवसायस्य तत्त्वतः ॥१७८॥ अज्ञानात्मकमित्येवं संन्निकर्षादिदर्शनम् । अस्य संविदितं ज्ञेयं तदनात्मप्रबोधकम् ॥१७९ ॥ परावभासकत्वं नैषां स्वमात्रावभासकम् । विपर्ययाः समारोपा दर्शनं निर्विकल्पकम् ॥ १८० ॥
स्वपरव्यवसायस्तु न चैतेभ्यः प्रसिध्यति । आभासकास्तु त इमे प्रमाणस्य प्रकीर्तिताः ॥ १८१ ॥ आद्याभास इतीहभेदसहितो गन्धर्वपूर्वारिदे, दुःखेशं च तथाह्यवग्रह मुखाभासानिवेद्याः पुनः । आभासोप्यवधेः शिवस्य विदितो द्वीपाश्च सप्ताब्धयः आभासः सकलस्य नैव विदितः प्रत्यक्षबोधेप्यमी ॥१८२॥ तदित्यननुभूतेपि स्मरणाभासे उच्यते । तुल्येर्थे प्रत्यभिज्ञानाभासमाहुः स एव च ॥ १८३॥ तर्काभास इतीह मैत्रतनयः स श्याम एवोदितः, पक्षाभाससमुद्गतं ह्यनुमितेराभासमेवं जगुः ।
तस्मात्तत्त्रितयं च तस्य विदितं पूर्वोक्तमेतत्रयं, पक्षस्य व्यतिरेकतः समुदितं तस्मात्ततो लक्षणम् ॥ १८४॥ प्रतीताद्यास्त्रयो ज्ञेयाः साध्यधर्मविशेषणात् ।
आद्यः समस्ति जीवोयं यत्परेणार्हतान् प्रति ॥ १८५ ॥ प्रमाणश्रुतलोकस्वभाषादिभिरनेकधा । आद्यनुष्णोग्निरैवायं द्वितीयोस्ति न सर्ववित् ॥१८६॥ तृतीयोपि हि जैनेन कर्तव्यं रात्रिभोजनम् । परदाराभिलाषोपि कर्तव्यः सर्वदा सदा ॥ १८७॥
अथ्थं गइम्मि आइच्चे पुरत्थाय अणुग्गए । आहारमइयं सव्वं मणसावि न पच्छए । १८८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org