________________
विभाग-२, जैनस्याद्वादमुक्तावली
३४३
आद्योऽनेकान्तवादश्च तथा सदसदात्मकः । नित्यानित्यात्मको वादोऽन्यः सामान्यविशेषकः ॥१६४॥ चत्वार एते वादाः स्युः स्याद्वादे न विरोधिनः । सप्तभङ्ग्यामभिलाप्या नाभिलाप्या द्वितीयके ॥१६५॥ चारित्रचारुमूर्तिर्यश्चारित्ररससागरः। चारित्रसिद्धये मे स्ताद् गुरुश्चारित्रसागरः ॥१६६॥ सूरिः श्रीविजयप्रभस्तपगणाधीशो नतेशः श्रिये, कल्याणादिमसागराह्वगुरवो विद्वद्यशः सागराः। तच्छिष्यस्य यशस्वतः कृतिरियं स्याद्वादमुक्तावली द्वैतीयीकतया परोक्षजनको गुच्छोऽभवत्तत्र सन् ॥१६७॥
- तृतीयः स्तबकः :संक्षेपतः समाख्याय प्रमाणस्योभयस्य च । इत्थं स्वरूपसंख्ये च गोचरो गृह्यतेऽधुना ॥१६८॥ गुणपर्यायवद् द्रव्यं स्थित्युत्पादव्ययात्मकम् । अनेकान्तस्वरूपं चानुवृत्तिव्यतिवृत्तिभाक् ॥१६९॥ ज्ञानस्यैतस्य विषयो लोकालोकद्वयात्मकः । प्रमेयं वस्त्विति ज्ञातं सकलं सकलीरितम् ॥१७०॥ षड्द्रव्यैः पूरितं सर्वं नवतत्त्वान्वितं स्मृतम् । निर्णीतं ज्ञानिभिः सम्यक् तथेत्थं ज्ञानगोचरः ॥१७१॥ गंतूण न परिच्छिन्दइ नाणं नेयंतयम्मि देसम्मि। आयत्थंचिय णवरं, अचिंतसत्ती उ विणेयं ॥१७२॥ लोहोवलस्स सत्ती, आयत्था चेव भिन्नदेसम्मि। लोहं आगरिसंती, दीसई इह कज्जपच्चक्खा ॥१७३॥ एवमिहनाणसत्ती, आयत्था चेव हंदि लोगंतं । जइ परिच्छिन्दइ सम्म, को णु विरोहो भवे तत्थ ॥१७४॥ फलमस्य द्विधा तच्च प्रमाणेन प्रसाध्यते । आनंतर्येण वा पारंपर्येणेति प्रशस्यते ॥१७५॥ प्रमाणानां यदज्ञाननिवृत्तिः फलमुच्यते । औदासीन्यं फलं पारंपर्यात्सकलिवां सदा ॥१७६॥
Jain Education international
www.jainelibrary.org