________________
३४२
विभाग-२, जैनस्याद्वादमुक्तावली
हेतुर्वाक्यार्थविज्ञाने आकांक्षा योग्यता तथा। सन्निधिश्चेति विज्ञेयं त्रयं साधारणं मतं ॥१५२॥ अभिव्यक्तेन संकेताज्जातिव्यक्त्युभयाश्रितात् । वाच्यवाचकभावेन सोर्थस्य प्रतिपादकः ॥१५३॥ शब्दार्थयोः प्रतिपत्ति, लक्षणा व्यञ्जनादिका। ध्वनेस्तात्पर्यविज्ञानं बहुधा च बहुश्रुतैः ॥१५४॥ स्यादस्तिभेद एवैकः स्यान्नास्तीति द्वितीयकः । स्यादस्तिनास्ति भेदोन्यस्तूर्योऽवक्तव्यसंगतः ॥१५५॥ स्यादस्तितोप्यवक्तव्यं स्यान्नास्तिपदतोपि वा । स्यादस्तिनास्त्यवक्तव्यं सप्तमो भेद एव च ॥१५६॥ स्यादस्तिनास्त्यवक्तव्यैरेकद्वाभ्यां विमिश्रितैः । भङ्गा विधिनिषेधाभ्यां स्यात्पदात्सप्त विश्रुताः ॥१५७॥ या प्रश्नाद्विधिपर्युदासभिदया बाधच्युता सप्तधा, धर्मं धर्ममपेक्ष्य वाक्यरचनानेकात्मके वस्तुनि । निर्दोषानिरदेशि देव भवता सा सप्तभङ्गी यया, जल्पन् जल्परणांगणे विजयते वादी विपक्षं क्षणात् ॥१५८॥ द्रव्यक्षेत्रकालभावैः, स्वैरन्यैस्तु घटोस्त्ययम् । स्वभावात्परभावाच्च द्रव्याद्यैर्नास्त्ययं यथा ॥१५९॥ कालादिभिरभेदेनोपचारात्प्रतिपाद्यते । प्रमाणवाक्यात्सैवायं, सकलादेश उच्यते ॥१६०॥ कालात्मरूपसंबन्धाः संसर्गोपक्रिये तथा। गुणिदेशार्थशब्दश्चेत्यष्टौ कालादयः स्मृताः ॥१६१॥ तद्भावाव्यय एवैकं नित्यं लक्षणमिष्यते । पर्यायापेक्षयादन्यदनित्यत्वमथोच्यते ॥१६२॥ चार्वाकोध्यक्षमेकं सुगतकणभूजौ सानुमानं सशब्द, तद्वैतंपारमार्थः सहितमुपमया तत्त्रयं चाक्षपादः । अर्थापत्त्या प्रभाकृत् वदति च निखिलं मन्यते भट्ट एतत् साभावं द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥१६३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org