________________
विभाग- २, जैनस्याद्वादमुक्तावली
सद्भावरूपः किल वस्तुनोपि विधिः सदंशो गदितः सुधीभिः । अभावरूपः खलु वस्तुनस्तु, तस्यासदंशः प्रतिषेध एवम् ॥१३८॥ चतुर्धायं प्रागभावः प्रध्वंसाभाव एव वा । तथेतरेतराभावो ऽत्यन्ताभावश्चतुर्थकः ॥ १३९ ॥ यन्निवृत्तौ हि कार्यस्य समुत्पत्तिः प्रजायते । प्रागभावः स मृत्पिण्डो यथाकुम्भस्य कथ्यते ॥१४०॥ यदुत्पत्तौ हि कार्यस्य व्ययोऽवश्यं द्वितीयकः । कलशस्य यथाजातं यत्कपालकदम्बकम् ॥ १४१ ॥ स्वरूपान्तरतः स्वीयरूपव्यावृत्तिरिष्यते । स्वस्वरूपव्यवच्छेदः, स चान्यापोहनामतः ॥१४२॥ कुम्भस्वभावव्यावृत्तिर्यथास्तम्भस्वभावतः । इतरेतरनामा तु तार्त्तीयीकतयोदितः ॥१४३॥ तादात्म्यपरिणामस्य निवृत्तिस्तु त्रिकालतः । सोऽत्यन्ताभाव एवायं चेतनाचेतने यथा ॥ १४४॥ आप्तस्य वचनादाविर्भूतमर्थस्य वेदनम् । आगमस्तूपचाराच्च स आप्तवचनात्मकः ॥ १४५॥ अभिधेयं यथावस्तु यो जानाति यथास्थितम् । यथा ज्ञानं चाभिधत्ते स आप्त इति विश्रुत: ॥१४६॥ सा लौकिक वक्तादिमो लोकोत्तरो जिनः । अविसंवादि वचनं, तस्य तस्माद् ध्वनिः स्मृतः ॥ १४७॥
तद्वचनं वर्णपदवाक्यात्मकमुदीरितम् । अकारादिः पौगलिको वर्णः शब्दः पुनः स्मृतः ॥ १४८ ॥ रूपादिवद् व्योमगुणो भवेन्नो शब्दोऽस्मदादीन्द्रियवेदनत्वात् । रूपादिवत्पौद्गलिकस्तदिन्द्रियार्थत्वतः पौगलिकत्वसिद्धिः ॥१४९॥ अन्योन्यापेक्षवर्णानां निरपेक्षा च संहतिः ।
पदं पदैरेव कृतं वाक्यस्येदं हि लक्षणम् ॥१५०॥ स्वस्वाभाविकसामर्थ्यसमयाभ्यां निवेदितम् । सदर्थस्य प्रतिपत्तिकारणं शब्द उच्यते ॥ १५१ ॥
Jain Education International
For Personal & Private Use Only
३४१
www.jainelibrary.org