________________
३४०
विभाग-२, जैनस्याद्वादमुक्तावली
प्रतिबन्धप्रतिपत्तेरास्पदं यस्य लक्षणम् । द्वधा साधर्म्यवैधर्म्यभेदाद् दृष्टान्त एव सः ॥१२५॥ साध्यर्मिणि सद्धेतोरुपसंहरणं तथा। धूमश्चात्र प्रदेशेऽयं तस्मादुपनयः स्मृतः ॥१२६॥ तत्पुनः साध्यधर्मस्य पूर्वयोगेन भाषितम् । तत्तस्मादग्निरत्रायमेतन्निगमनं स्मृतम् ॥१२७॥ यथाग्निमानयं देशः प्रोच्यते पक्षधर्मता। धूमवत्त्वाद्धेतुवाक्यमनुमानं परार्थकम् ॥१२८॥ य एवं च स एवं तौ दृष्टान्तोपनयावुभौ । पाकस्थानं निगमनं मन्दधीसिद्धये त्रयं ॥१२९॥ प्रकाश्यते साधनधर्मसत्ता तस्यां कृता साध्यसुधर्मसत्ता । साधर्म्यदृष्टान्त इति प्रदिष्टो यत्रास्ति भूमौ दहनस्तु तत्र ॥१३०॥ साध्याभावे साधनस्याप्यभावो वैधयॊक्तौ वै स दृष्टान्त एषः । शौचिः केशाभावतोस्याप्यभावो धूमस्यास्मिन् ज्ञेय एव हृदे सः ॥१३१॥ प्रयोगतोपि द्विविधः सहेतुस्तथोपपत्तिस्तु यदन्वयः स्यात् । ततोऽतिरिक्तस्तु तथान्यथानुपपत्तिसंज्ञो व्यतिरेक एव ॥१३२॥ द्वेधोपलब्ध्यनुपलब्धिभिदा हि हेतुः, साध्यन्तयोविधिनिषेधविशेषसिद्धिः । एते द्विधा तदविरुद्ध विरुद्धभेदात्, साध्येन सार्धमिह तच्च न वाऽपि हेतोः ॥१३३॥ कार्यात्पुनः कारणकार्यताभ्याम्, पूर्वोत्तराभ्यां च चरात्सहाय्यात् । स्मृतोपलब्धिस्तु तथैव वाऽन्या स्वभावतोऽपि प्रथितात्प्रयोगात् ॥१३४॥ सिद्धौ विधेस्तदविरुद्धयुतोपलब्धि,
ाप्तादितश्च नियुताः किल षट्प्रकाराः । अन्या स्वभावनियुताप्रतिषेधसिद्धौ, स्यात्सप्तधा किल विरुद्धयुतोपलब्धिः ॥१३५॥ सप्तप्रकाराः प्रतिषेधसिद्धौ यथाविरुद्धानुपलब्धिरेषा । विधिप्रतीतौ किल पञ्चधेति स्मृता विरुद्धाऽनुपलब्धिरेवम् ॥१३६॥ एताश्च सोदाहरणा ज्ञेयाः सद्भिस्तु विस्तरात् । ग्रन्थस्य भूयस्त्वभयानाऽत्रालेखि प्रमादतः ॥१३७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org