________________
विभाग-२, जैनस्याद्वादमुक्तावली
येन धर्मेण धर्मस्य, सहभावविनिश्चयः । वृक्षत्वं गमयत्येव शिंशपात्वेन हेतुना ॥११२॥ धूमस्यापि बृहद्भान्वंतरभावविनिश्चयः । धूमोग्नि गमयत्याशु क्रमभावः स्मृतोऽपि सः ॥११३॥ साधनं त्रिविधं कार्यस्वभावानुपलम्भभित् । पक्षोपि हेतुवत्साध्यः, साध्यसंबन्धसिद्धये ॥११४॥ पक्षस्य वचनं यत्स्यात् सा प्रतिज्ञा प्रकाश्यते । साध्यधर्मविशिष्टेऽपि पक्षत्वं धर्मिणि श्रुतम् ॥११५॥ अनुमानस्वरूपाप्तौ संबन्धस्मरणान्वितः । प्राहुर्लिङ्गपरामर्शः कारणं तत्र सूरयः ॥११६॥ धर्मिणोऽपि प्रसिद्धत्वं विकल्पाच्च प्रमाणतः । उभाभ्यां वापि विज्ञेयं स्वसंवेदनवेदकम् ॥११७॥ स्वार्थानुमानं स्यात् व्यङ्गं धर्मी साध्यं च साधनम् । साधनात्साध्यसंसिद्धिरनुमानप्रयोजनम् ॥११८॥ साध्यधर्मविशिष्टेऽपि पक्षत्वं धर्मिणि श्रुतम् । अन्यथानुपपत्त्यैकलक्षणो हेतुरिष्यते ॥११९॥ सद्धेतोर्ग्रहणं तथा स्मरणकं व्याप्तेस्तयोः संभवं, साध्यज्ञानमतोऽनुमानकमिदं स्वार्थं सुधीभिधृतम्। साध्यत्वं च तथाप्रतीतमिति तत्त्रेधा श्रुते विश्रुतं, किंत्वस्मादनिराकृताद् द्वयमिदं चाभीप्सितात्तत्रयम् ॥१२०॥ कृशानुमानयं देशः प्रोच्यते पक्षधर्मता । हेतूदितं धूमवत्वादनुमानं सुधीहितम् ॥१२१॥ हेतु प्रयोगतो द्वेधा तथोपपत्तिरन्वयः । अन्यथानुपपत्तिस्तु व्यतिरेकः पुरोदितः ॥१२२॥ परस्मै प्रतिपाद्यत्वात्प्रत्यक्षादेः परार्थता । तथैवमनुमानस्य सर्वत्रैवं विभावना ॥१२३॥ हेतोर्वचनतः स्वार्थं पक्षहेत्वोः परार्थकम् । बालव्युत्पत्तिसिद्धयर्थं पञ्चावयवमीरितम् ॥१२४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org