________________
३३८
विभाग- २, जैनस्याद्वादमुक्तावली
अन्वयव्यतिरेकाभ्यां निदर्शनं निदर्शनम् । अन्वयः सति सद्भावे व्यतिरेकस्ततोन्यथा ॥९९॥ तर्कः प्रमाणमात्रेणोपलम्भानुपलम्भतः । संभवः कारणं यत्र कालत्रितयवर्तिनोः ॥ १००॥ साध्यसाधनयोर्व्याप्त्याद्यालम्बनमिदं हि यत् । अन्वयव्यतिरेकाभ्यां संवेदनमुदीरितम् ॥१०१॥ साध्यसाधनयोर्नित्यं कालत्रितयवर्तिनोः । संबंधो व्याप्तिरित्येवाविनाभावितयोच्यते ॥ १०२ ॥ अप्रत्यक्षपदार्थस्य कथं प्रामाण्यनिर्णयः । अर्थक्रियाभिसंवादादनुमानेन निर्णयः ॥१०३॥
अथानुमानं द्विविधं वदन्ति स्वार्थं परार्थं ह्युपचारतोपि । स्वस्मै हितं स्वार्थमिदं सुधीभिरन्यत्परस्मै प्रतिपाद्यमानम् ॥१०४॥ स्वार्थ स्वहेतुग्रहणव्याप्तिस्मरणपूर्वकम् ।
यदेव साध्यविज्ञानमनुमानं तदेव हि ॥ १०५ ॥ अप्रतीतमनिराकृतमेतत् साध्यमेव यदभीप्सितमत्र । व्याप्तिपक्षसमयोदितसाध्यं तद्विकल्पवशतो पि च मानात् ॥१०६ ॥ साध्यं यदविनाभावसाधनं यत्र लक्षणम् । अन्यथानुपपत्त्यैकलक्षणं यत्र साधनम् ॥१०७॥ यावान्कश्चिदयं सधूमनिकरः सत्येव वह्नौ भवेत्, यत्सत्त्वे प्रथमोन्वयो निगदितो यत्सत्त्वमेवोभयम् । धूमोऽत्राऽसति पावके भवति नो तत्तु द्वितीयोऽधुना, ज्ञातव्यो व्यतिरेक एष सततं चैवाऽन्यथा लक्षणं ॥ १०८ ॥ व्याप्तिः सदा द्रव्यगुणक्रियाभिरत्यन्तसंयोगविशेष एव । तथाविनाभाव इतीह नित्यसंबन्धिसंबद्धविशिष्टरूपा ॥१०९ ॥ प्रतिबन्धोऽविनाभावः संबन्धो व्याप्तिरिष्यते । हेतुव्याप्तिसमायोगः परामर्शः स उच्यते ॥ ११० ॥ सहभावक्रमभावावनयोर्नियमः स्मृतोऽविनाभावः ।
व्याप्तेर्निश्चयतः स्याद् व्याप्तिः सैव प्रकाश्यते विबुधैः ॥ १११ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org