________________
विभाग-२, जैनस्याद्वादमुक्तावली
त्वमेव निर्दोष इतीह शास्त्राऽविरोधिवादेवयतो विरोधः । यथा प्रसिद्धेन न बाध्यतेऽत्र, तस्मादनेकान्तमताद्यदिष्टम् ॥८६॥ त्वद्वाक्सुधापानपराङ्मुखानां सदैवमेकान्तमतानुगानाम्। निजाप्तहेवाकविडम्बितानां स्वेष्टं च दृष्टेन हि बाध्यतेऽत्र ॥८७॥ चारित्रांशः कलौ भूरिभाग्यभाजां सुदुर्लभः। अस्मद् भाग्योदयादाप्तो गुरुश्चारित्रसागरः ॥४८॥ सूरिः श्रीविजयप्रभस्तपगणाधीशो नतेशःश्रिये, कल्याणादिमसागराह्वगुरवो विद्वद्यशः सागराः। तच्छिष्यस्य यशस्वतः कृतिरियं स्याद्वादमुक्तावली, प्रत्यक्षस्तबकः प्रमाणरसिकस्तत्राद्य एवाजनि ॥८९॥
-: द्वितीयः स्तबकः :अथ द्वितीयं प्रतिपाद्यमानाऽस्पष्टभावाभिमतं परोक्षम् । आद्ये परोक्षे हि मति श्रुते द्वे सैद्धान्तिकास्तावदिदं वदन्ति ॥१०॥ स्मरणं १ प्रत्यभिज्ञानं २ तर्कोऽ ३ थानुमितिः ४ श्रुतम् ५ । परोक्षं पञ्चधा प्राहुर्भूरयः पूर्व सूरयः ॥११॥ मानार्पिता या प्रसभं प्रतीता प्रतीतिरेवानुभवः प्रतीतः । क्रमोत्तरं कारणमाहुरेषाम् क्रमोप्यमीषामयमेव सिद्धः ॥१२॥ संस्कारबोधोदितकारणेन तथानुभूतार्थकगोचरं यत् । तच्छब्दमात्रोल्लिखनस्वरूपं विज्ञानमेतत्स्मरणं परोक्षम् ॥१३॥ स्मृतं तथैवोपमितं वितर्कितं, पुनस्तथैवानुमितं श्रुतश्रुतम् । प्रत्यक्षतो वापि धृतं पुरा यत् सर्वज्ञबिम्बं स्मरणे निदर्शनम् ॥१४॥ हेतू तु यस्यानुभवस्मृती ते सामान्ययुग्मं विषयोपदेशः तथा पुनः संकलनस्वरूपं तत् प्रत्यभिज्ञानमतो वदन्ति ॥१५॥ एकं हि पूर्वोत्तरकालवर्ति दशानुषक्तं सदृशत्वतोऽन्यत् । ततोऽन्यथाऽन्यत् किल योगक्लृप्तमन्तःप्रविष्टं ह्युपमानमत्र ॥१६॥ स एष दृष्टो जिनदत्त एष स गोसदृशो गवयस्तथाऽन्यः । गोर्वैसदृशो महिषस्त्वयन्तन्निदर्शनं संकलनात्मके स्यात् ॥१७॥ मानोपलम्भानुपलम्भहेतुर्व्याप्तिर्हि यस्मिन् विषयोपदेशः । अस्मिन्सतीदं भवति स्वरूपं तर्कोस्ति धूमो दहनस्तु यत्र ॥१८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org