________________
विभाग-२, जैनस्याद्वादमुक्तावली
मनःपुनस्तद्वयसाधनोत्कमप्राप्यकारिस्वमते च चक्षुः । ज्ञानं तथैवाहुरपीतराणि यत्प्राप्यकारीणी तदिन्द्रियाणि ।।७४॥ योग्येन्द्रियार्थसमयोद्भवमुख्यसत्ता, तन्मात्रगोचरसमुद्भवसद्विशिष्टम् । संगृह्यतेऽत्र विशदं खलु येन वस्तु, सोऽवग्रहः पुनरयं पुरुषः समस्ति ।।७५॥ तद्गोचरीकृतपदार्थविशेषसंविदीहास्ति संशयनिराकरणोद्भवाऽत्र । यद्येष एषः पुरुषः किल दाक्षिणात्यस्तत्प्रत्ययात्मकतया ग्रहणाभिमुख्यम् ।।७६॥ जातस्तथेहितविशेषविनिश्चितात्मा, भाषाद्यशेषविषयाचरणादपायः । निश्चित्यवैषः पुरुषःखलुदाक्षिणात्यो,याथात्म्यबोधविधिना विधिवत्प्रयुक्तः ॥७७॥ कालान्तरेण तद् विस्मरणाय योग्यं, तज्ज्ञानमेव गदिता किल धारणैषा । स्याच्चागृहीतविषयग्रहणादमीषां, कोप्यत्र पूर्वमुनिभिः कथितःक्रमोऽयम् ॥७८॥ तत्राद्यं विकलं निजावरणकच्छेदोद्भवोत्पत्तिमत्, किञ्चित्स्यादसमस्तवस्तु विषयावच्छेदकत्वात् पुनः । प्रत्येवं प्रथमं हि यद्भवगुणौ सत्प्रत्ययौ यस्य तौ, रूपिद्रव्यसुगोचरं तदवधिज्ञानं ह्यदः षड्विधम् ॥७९॥ चारित्रशुद्धिसंजातविशिष्टावरणक्षयात् । यन्मनोद्रव्यपर्यायालम्बनं विनिवेदितम् ॥८॥ तद् द्वेधा संज्ञिजीवानां, मानुषक्षेत्रवर्तिनाम्। मनःपर्यायविज्ञानं मनःपर्यवसंज्ञिकम् ॥८१॥ स्वसामग्रीविशेषोद्यत्समस्तावरणक्षयात् । सकलं घातिसंघातविघातापेक्षमीरितम् ॥८२॥ समस्तवस्तु विस्तारं, साक्षात्कारि त्रिकालतः । सर्वथा सर्वदा नित्यं, केवलज्ञानमेव तत् ॥८३॥ सर्वज्ञोऽसौ वीतरागः प्रसिद्धो निर्दोषत्वात्सद्भिरेवोदितश्च । निर्दोषोऽयं सत्प्रमाणाऽविरोधिवाक्त्त्वादत्र स्पष्टदृष्टान्त एषः ॥८४॥ स्युः सूक्ष्मान्तरितातिदूरगुणिनस्त्वण्वादयः कस्यचित्, प्रत्यक्षाः सततं यथाहुतवहः साध्योनुमेयत्वतः । सर्वज्ञः किल सोस्त्यनिन्द्रियकतो ज्ञानाच्छ्रुतः सुश्रुतात्, यस्मादिन्द्रियजं न सर्वविषयं ज्ञानं भवेत्कर्हिचित् ॥८५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org