________________
विभाग-२, जैनस्याद्वादमुक्तावली
3३५
अनिश्चितानेककोटि-स्पर्शिज्ञानं च संशयः । स्थाणुर्वा पुरुषोवेति समारोपो द्वितीयकः ॥६४॥ किमित्यालोचनप्रायं ज्ञेयोऽनध्यवसायकः । गच्छतश्च तृणस्पर्शविषयं ज्ञानमुच्यते ॥६५॥ पूर्वाकारपरिक्षयोत्तरधृताकारः स्मृतं कारणं, पूर्वाकारपरिक्षयोत्तरपरीणामस्तु कार्यं भवेत् । निर्दिष्टं कारणं च साधकतमं तत्कारणं स्यात्रिधोपादानं सहकारिकारणमतोऽपेक्षाकृतं कारणम् ॥६६॥ एकं त्वसाधारणकारणं स्यादन्यच्च साधारणमाहुरत्र । एकं छुपादानमतो मतं च तथान्यदन्येन कृतं कृतं तत् ॥६७॥ उत्पत्तौ परतः स्वतश्च परतो ज्ञप्तौ प्रमाणं भवेत्, प्रत्यक्षं च परोक्षमेतदुभयं मानं जिनेन्द्रागमे । अक्षाधीनतयाऽस्मदादिविदितं स्पष्टं द्विधा लौकिकं मन्यत्तत्किल पारमार्थिकमतो नित्यं सतां संमतम् ॥६८॥ आद्यं सांव्यवहारिकं पुनरपि द्वेधेन्द्रियाऽनिन्द्रियोत्पन्नत्वाद्विदितं तथापि हि चतुर्भेदं तथाऽवग्रहः । ईहापायसुधारणाभिरुदितं ज्ञानं हिमत्यात्मकं, तत्राद्यं विकलं तथा च सकलं तद्वान् स्मृतस्तीर्थकृत् ॥६९॥ ज्ञानावरणनाशाच्च क्षयोपशमतोपि वा। शब्दाद्यसंभविज्ञानं स्पष्टं स्वानुभवोदयात् ॥७०॥ ज्ञानं सांव्यावहारिकं निगदितं प्रत्यक्षमेवेन्द्रियैर्जन्यन्तत्किल पारमार्थिकमिदं तस्माच्च तद्धेतुकम् । अन्यान्यव्यतिरिक्तलक्षणवतोः प्रत्यक्षता किं तयोराद्ये स्यादुपचारतः कविवर्ज्ञाने परोक्षेऽग्रिमे ॥७१॥ स्पष्टं विशेषविशदप्रतिभासमानं प्रत्यक्षमेकमुदितं व्यवसायरूपम् । तद्देशतो हि विशदप्रतिभासनत्वात् ज्ञानं विशिष्टमिह सांव्यवहारिकं स्यात् ।।७२॥ ज्ञानं भवेदिन्द्रियजन्यमेकम् पुनस्तथानिन्द्रियजन्यमन्यत् । स्पर्शादिकानां पुनरिन्द्रियत्वमनिन्द्रियत्वं मनसो वदन्ति ॥७३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org