________________
३३४
विभाग-२, जैनस्याद्वादमुक्तावली
उद्देशसल्लक्षणतत्परीक्षा द्वारेण तेषां सदुपायमाहुः । उद्देशमेवात्र हि नाम मात्र, वस्तु प्रकाशोद्यतमामनन्ति ॥५०॥ तल्लक्षणं यद्व्यतिकीर्णवस्तु, व्यावृत्तिहेतुर्द्विविधं तदेव । आत्मानुभूतं तदनात्मभूतमौष्ण्यं यदग्नेः पुरुषस्तु दण्डी ॥५१॥ तेषां तथा स्यात् सदसद्विचारो युक्तेर्बलात्सैव मता परीक्षा। एभिस्त्रिभिर्वस्तु सदैव लक्ष्यं सत्तार्किकाणां किल वृत्तिरेषा ॥५२॥ अव्यापकत्वं हि तदेकदेश्यतिव्यापकत्वं त्वितरानुवृत्ति । कृत्राप्यवर्तित्वमसंभवस्यैते लक्षणाभासतयात्रयोमी ॥५३॥ स्वपरव्यवसायिलक्षणं गदितं ज्ञानमिदं प्रमाणकृत् । सदसत्सकलार्थसंग्रहग्रहणाभिज्ञमतो विशेषकृत् ॥५४॥ यत्सन्निकर्षादिसंविदात्मा प्रामाण्यशाली न भवेत् कदाचित् । नार्थान्तरस्यैवमचेतनत्वात् स्वार्थोपपत्तौ करणत्वमस्य ॥५५॥ . किं स्यात्प्रमायाः करणत्वमस्य प्रत्यक्षता वापि कथं घटेत । प्रमाणता वापिकुतस्तमांस्यात् नो सन्निकर्षे त्रितयं कदाचित् ॥५६॥ असन्निकृष्टं प्रमितेहि चक्षुरप्राप्यकारित्वत एव हेतोः । तदुद्भवः स्यात्खलु सन्निकर्षाभावेपि तस्यां न घटेत तत्ता ॥५७॥ चक्षुर्मनोवद्विषयोद्भवानुग्रहोपघातानुपलम्भतोपि । अप्राप्यकारीन्द्रियमण्डलेषु स्याद् व्यञ्जनावग्रहकश्चतुर्षु ॥५८॥ न विद्यते चक्षुषि तैजसत्वं न रश्मिवत्ता न च तद्गतिस्तु । अप्राप्तवस्तु प्रवरप्रकाशे तद्योग्यतैवं शरणं वदन्ति ॥५९॥ व्यवसायस्वभावं हि प्रमाणत्वादुदीरितम् । परोदितं तथा निर्विकल्पकं व्यवसायहृत् ॥६०॥ समारोपविरुद्धत्वाद् यन्नैवं न तदीदृशम् । तस्मिंस्तदध्यवसायो व्यवसायः शितेशितम् ॥६१॥ अतत्प्रकारे सति तत्प्रकारतान्तः समारोप इति प्रसिद्धः । विपर्ययः संशय एव तत्रोपचारतोऽनध्यवसायसंज्ञः ॥६२॥ विपरीतैककोटेस्तु निष्टंकनं विपर्ययः । शुक्तिकायां हि रजतं समारोपोयमादिमः ॥६३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org