________________
विभाग- २, जैनस्याद्वादमुक्तावली
एकान्तनित्ये न गमागमौ स्तः न पुण्यपापे न च बन्धमोक्षौ । तथाप्यनित्येपि स एव दोषस्तस्मादनेकान्तमते न दोषः ॥ ३६ ॥
स्यादित्यव्ययमेवेदमनेकान्तप्रदीपकम् । अष्टास्वपि पदेष्वेवमियं तत्त्वचतुष्टयी ॥३७॥
नित्याऽनित्यत्वमेवैकान्या सामान्यविशेषभिद् । अभिलाप्यान्यभेदैका भावाऽभावात्मिकापरा ॥ ३८ ॥
एकान्तनित्ये सुखदुःखयोस्तु भोगो न जीवे न तथाप्यनित्ये । क्रमाक्रमाभ्यां च तथाहि नित्यानित्ये क्रियावस्तुनि नो घटेत ॥३९॥ चित्रं यदेकं तदनेकमत्र प्रामाणिकै रूपमुरीकृतं यैः । एकत्र मान्याः सततं त्वदन्यैरुपाधिभेदेन विरुद्धधर्माः ॥ ४० ॥
स्वतन्त्रनित्यानित्याभ्यामपरे वादिनः पुनः । मिश्राभ्यामपि ताभ्यां तु प्रोचुः स्याद्वादवादिनः ॥ ४१ ॥ कुण्डली कुण्डलीकाराऽर्जवावस्थाश्रितोपि वा । व्यतिरिक्ताऽव्यतिरिक्ता नैकान्ते संगतास्तदा ॥४२॥ एकान्तवादो न च कान्तवादोप्यसंभवो यत्र चतुष्टयस्य । उपक्रमो वानुगमो नयश्च निक्षेप एते प्रभवन्ति तद्वत् ॥४३॥ महाग्रन्थेषु यत्प्रोक्तं तत्त्वं चतुश्चतुष्टयं ।
विज्ञेयं वृत्तितो विद्भिः सविशेषं विशेषतः ॥ ४४ ॥
जीव: पदार्थो गुणिता गुणास्तु विज्ञानशक्तिप्रमुखास्त्वनन्ताः । नृदेवतिर्यग्निरयैकरूप पर्यायरूपं प्रवदन्ति तत्त्वं ॥४५॥ अजीवंश्चापि जीवन्ति जीविष्यन्ति च ये सदा । जीवा इति जिनास्तत्त्वं जगुर्हि जगदुत्तमाः ॥ ४६ ॥ संसारिणाश्च ये जीवाः संसरन्ति पुनः पुनः । समसार्षुश्च संसारे संसरिष्यन्ति ते सदा ॥४७॥ संसार्यसंसारितयोपयोगी, द्विधा प्रमाता व्यवहारतोपि । कर्ता च भोक्ता तनुमानमेयः, शुद्धात्स्वभावोर्ध्वगतिस्त्वमूर्तः ॥ ४८ ॥
चेतना लक्षणोप्यात्मा प्रतिक्षेत्रं पृथग् स्थितः । ज्ञातश्चोभयमानेनादृष्टवान् परिणाम्यसौ ॥ ४९ ॥
Jain Education International
For Personal & Private Use Only
३३३
www.jainelibrary.org