________________
२२९
विभाग- २, जैनस्याद्वादमुक्तावली
द्रव्यं पर्यायसंयुक्तं पर्याया द्रव्यसंगताः । गुणो द्रव्यगतो धर्मः स्वरूपात्त्रितयं विदुः ॥२३॥ द्रव्यं पर्यायवियुतं, पर्यार्या द्रव्यवर्जिताः । क्व कदा केन किंरूपा, दृष्टा मानेन केन वा ॥२४॥ स्वद्रव्यादिचतुष्टयेन परतस्तेनैव तद्धेतुना, झ्रभावाभावयुगात्मकस्तु कलशो जातस्तथा प्रत्ययात् । इत्थं नैव यदा तदैव कलशः स्तम्भादिरेव स्फुटम्, तस्मान्नात्र विचारणापि सुधिया कार्याविचार्यागमे ॥ २५ ॥ परस्परं यत्र विरुद्धधर्माश्रितस्वभावा गुणिपर्ययेषु । न दोषपोषाय विरुद्धधर्माध्यासस्त्वनेकान्तमतानुगानाम् ॥२६॥ सर्वमस्ति स्वरूपेण पररूपेण नास्ति च । अन्यथा सर्व सत्त्वं स्यात् स्वरूपस्याप्यसंभवः ॥२७॥ पुत्रत्वमपि पितृत्वं मातुलत्वं च पौत्रता । भ्रातृव्यत्वं तथा भागिनेयत्वं च पितृव्यता ॥२८॥ एकस्मिन्नेव पुरुषे धर्मा एते विरुद्धकाः । संगच्छन्ते कथं विद्वन्नास्त्यपेक्षाकृता अमी ॥ २९ ॥ पुत्रत्वं च पितृत्वं चापेक्षयापि कृतं भवेत् । पितुः पुत्रस्य भेदस्यैकस्मिन्नरे हि संगतम् ॥३०॥ भागे सिंहो नरः सिंहो योऽसौ भागद्वयात्मकः । तमभागं विभागेन नरसिंहं प्रचक्षते ॥३१॥ संशयः संकरो वैयधिकरण्यानवस्थिती । अप्रतिपत्तिर्विषयव्यवस्थाहानिरित्यमी ॥ ३२ ॥ यत्कार्यकारणतयाऽपि मतान्तरीया नित्यत्वमन्यदपि वस्तुनि मन्यमानाः । तत्कि विरुद्धघटना न भवेत्तदानीं, स्वीयाश्रितेपि न मते गुणदोषचिन्ता ॥ ३३ ॥ एते दोषा न चैवात्र स्याद्वादे संभवन्त्यमी ।
जात्यन्तरत्वान्निरवकाशा एव प्रतिष्ठिताः ॥३४॥
स्वभावभेदः किलवस्तुनस्तु स्वीयस्वभावव्यतिवृत्तितोपि । अतत्स्वभावात् परकल्पनायां तदानवस्थास्वयमेति वृद्धिम् ॥३५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org