________________
विभाग- २, जैनस्याद्वादमुक्तावली
द्रव्यतो धर्मः सहभावित्वलक्षणः । पर्येत्युत्पादनाशौ च पर्यायः स उदाहृतः ॥१२॥
द्रव्यं हि सामान्यविशेषरूपं स्वतस्तथाप्रत्ययवेदनेन । आद्यं द्विधा स्यादनुवृत्तिहेतुः द्विधा द्वितीयो व्यतिवृत्तिहेतुः ॥ १३ ॥ सामान्यमेतत् किल तिर्यगूर्ध्वता भेदप्रभिन्नं द्विविधं वदन्ति ते व्यक्तौ समानं प्रथमं गवां व्रजे गोत्वं यथाद्रव्यमिदं ततोऽन्यथा ॥ १४॥
तुल्या सदा परिणतिः प्रथमस्य लक्षणं, व्यक्तिं प्रतीह गदितं निजजातिवाचकं ।
पूर्वापरात्मनिजपर्यववर्त्तनत्वतः,
द्रव्यं तदेवमपरं मतमूर्ध्वताभिधं ॥ १५ ॥ व्यक्तिर्विशेषः स्वत एव सद्योवच्छेदकत्वाद् व्यतिवृत्तिरूपः । सोsपि द्विधा स्याद् गुणपर्यवाभ्यां स्वरूपभेदप्रथितात्मताभ्याम् ॥१६॥ द्रव्ये गुणाः सन्ति सदा सहोत्थास्तत्पर्यवास्ते क्रमभाविनःस्युः । स्याद् भेदभिन्ना न च धर्म्यपेक्षाकृतोप्यमीषां कथितः प्रभेदः ॥ १७ ॥ सर्वं तथान्वयिद्रव्यं नित्यमन्वयदर्शनात् । अनित्यमेतत्पर्यायैरूत्पादव्ययसंगतैः ॥ १८ ॥
प्रध्वस्ते कलशे शुशोचतनया मौलौ समुत्पादिते, पुत्रः प्रीतिमवाप कामपि नृपः शिश्राय मध्यस्थताम् ।
पूर्वाकारपरिक्षयस्तदपराकारोदयस्तद्द्वया-, धारश्चैक इति स्थितं त्रयमतं तथ्यं तथा प्रत्ययात् ॥१९॥ घटमौलिसुवर्णार्थी - नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकं ॥ २० ॥ पयोव्रतो न दध्यत्ति न पयोत्ति दधिव्रतः । अगौरसव्रतो नेभे तस्माद्वस्तुत्रयात्मकम् ॥२१॥ उत्पादो न विना व्ययेन न विना ताभ्यां प्रसाध्या स्थितिः, सन्त्येते हि परस्परं खलु निजैः पर्यायभावाश्रितैः । भिन्नास्त्वेकपदार्थगा अपि मिथो भिन्नस्वभावादितः,
सैवेयं त्रिपदी जिनेशगदिता तस्यास्तु वश्यं जगत् ॥२२॥
Jain Education International
For Personal & Private Use Only
३३१
www.jainelibrary.org