________________
३३०
विभाग-२, जेनस्याद्वादमुक्तावली
पू.मु. श्री यशस्वत्सागरविरचिता (६)॥ जैनस्याद्वादमुक्तावली ॥
प्रथमः स्तबकः प्रणम्य शंखेश्वरपार्श्वनाथं प्रकाशितानन्तपदार्थसार्थम् । स्वान्यप्रकाशाय तमस्तमार्कः प्रकाश्यते जैनविशेषतर्कः ॥१॥ स्याच्छब्दार्थलसद्रसोद्भवभवा द्रव्यादिभिर्भास्वती स्वान्यद्रव्यचतुष्टयैक्यकलिता सार्वोक्तिभिः शाश्वती । सत्सामान्यविशेषभावललिता स्यात्सप्तभङ्गावली धार्या सद्भिरियं सुखैककृमिला स्याद्वादमुक्तावली ॥२॥ सत्तर्ककर्कशविचारपदप्रचारैर्दुर्वादिवादरसनाशनशासनाय । अज्ञानसंतमसराशिविनाशनाय स्याद्वादसत्खतिलकाय नमो नमोस्तु ॥३॥ सम्यक्प्रमाणनयतत्त्वसतत्त्वसिद्धिः, स्यात्सर्वदर्शि समयाध्ययनाभियोगात् । तत्रैव वस्तु सकलं समरूपतत्त्वमाभासते तदपि मानयुगप्रतीतम् ॥४॥ सन्त्येव प्राक्तनग्रन्थास्तदुद्बोधप्रबोधकाः । गंभीरा विस्तृतास्तेषु नाधिकारोऽल्पमेधसाम् ॥५॥ सुखोपायेन तेषां सन्न्यायशास्त्रार्थकाङ्क्षिणाम् । अज्ञानतिमिरोद्भेदद्योतरूपा प्रतन्यते ॥६॥ चिरन्तनानां विशदोक्तियुक्तेः संक्षेपतो वाप्युपजीव्य तस्याः । तल्लक्षणानीह तदीयशब्दैः पर्यायशब्दैः परिकल्पयामि ॥७॥ जीवाद्यधिगमोपायौ सत्प्रमाणनयाविमौ । विवेक्तव्यौ तथैवान्यप्रकारासंभवादतः ॥८॥ जीवादिवस्तुनश्चैवाऽनैकान्तात्मकलक्षणं । स्वद्रव्यगुणपर्यायैः स्थित्युत्पादव्ययात्मकैः ॥९॥ जीवाजीवौ द्वौ पदार्थों प्रसिद्धौ तत्राऽप्याद्यो द्विप्रभेदप्रभिन्नः । अन्त्यस्त्विष्टः पञ्चधा पुद्गलाख्यो धर्माधर्माकाशकालप्रभेदात् ॥१०॥ द्रवत्यदुद्रवद्रोष्यत्येव त्रैकालिकञ्च यत् । तांस्तांस्तथैव पर्यायांस्तद्र्व्यं जिनशासने ॥११॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org