________________
विभाग- २, षड्दर्शननिर्णयः
यच्चापि किञ्चित् कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् । महासत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत् ।। इति श्री महाभारते शान्तिपर्वणि तुलाधारजाजलिसंवादे । तथा - सत्यां वाचमहिंस्रां च वदेदनपवादिनीम् ।
'क्ल्काऽपेतामपरुषामनृशंसामपैशुनाम् ।।१।। तथा - ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ।
वाङ्मनोनियमः साम्यं मानसं तप उच्यते ।। तथा - आनृशंस्यं क्षमा शान्तिरहिंसा सत्यमार्जवम् । अद्रोहो नातिमानश्च हीस्तितिक्षा दमस्तथा । पन्थानो ब्रह्मणस्त्वेते एतैः प्राप्नोति यत्परम् ।।
शान्तिपर्वणि । इत्येवं सर्वदर्शनसंमतदेवगुरुधर्मरूपस्य तत्त्वत्रयस्य सम्यक्स्वरूपं परिज्ञाय शेषमशेषकदाग्रहं मुक्त्वा प्रेक्षावता सर्वज्ञेयसारमेतत्त्रयमेव ज्ञेयं श्रद्धेयं समनुष्ठेयं चेति तथा सम्पद्यते सकलकल्याणाऽभ्युद-यसमृद्धयः । कृतिरियं श्रीमद् अञ्चलगच्छेशश्रीमेरुतुङ्गसूरीन्द्राणाम् ।। छा ।। श्री ।। ।। छा । श्री ।। शुभं भत (भवतु) ।। छा ।। छा ।। ।। श्री ।। इति षड्दर्शननिर्णयः । सर्व सङ्ख्या
।१८१।४।
Pain मायाatlon International
३२९
For Personal & Private Use Only
www.jainelibrary.org