SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३२८ विभाग-२, षड्दर्शननिर्णयः जीवितं यस्य धर्मार्थं धर्मा(र्मो) ज्ञानार्थमेव च । अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः । शान्तिपर्वणि ।। तथा-अनग्निमनिकेतं तमेकाहावसथाश्रयम् । विमुक्तसङ्गं तं दृष्ट्वा प्रोचुः स्वपितरो मुनिम् ।।१।। -मार्कण्डेयपुराणे [८७.२] रुचिस्तोत्रे । तथा- अहिंसकः सत्यवक्ता सर्वसङ्गपराङ्मुखः । ब्रह्मचारी सवैराग्यो भिक्षुबर्बोद्धमते गुरुः ।। अतः सारमिति-महाव्रतधरा धीरा भैक्ष्यमात्रोपजीविनः ।। सामायिकस्था धर्मोपदेशका गुरवो मताः ।।१।। [त्रिषष्टि. श. पु. २. ३. ८९६] तथा क्षमा-मार्दवार्जव-मुक्तितपःसंयम-सत्त्व-शौचाकिञ्चन्य-ब्रह्मचर्यरूपः सर्वज्ञप्रणीतो दशविधो धर्मः । तथाहि अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । दानं दया दमः शान्तिः सर्वेषां धर्मसाधनम् ।।१।। [-याज्ञवल्क्यस्मृतौ १. १२२] तथा- अहिंसा ह्येव सर्वेभ्यो धर्मेभ्यो ज्यायसी मता । यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्दिश्य मानवाः । वृथा खादन्ति मांसानि नैष धर्मः प्रदर्श्यते ।। सुरा मत्स्या मधुमांसासवाः कृशरोदने । धूर्तेः प्रवर्तितं ह्येतनैतद् देवेषु कल्पितम् ।। कामान्मोहाच्च लोभाच्च लोक्यमेत(लोकेह्येत)त् प्रवर्तितम् । विष्णुमेव हि जानन्ति सर्वयज्ञेषु ब्राह्मणाः । पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् । याज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः ।। १. मुद्रिते तु एकाहारमनाश्रमम्' इति पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy