SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ विभाग-२, षड्दर्शननिर्णयः ३२७ योगशास्त्रेप्युक्तम् सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः यथास्थितार्थवादी च देवोऽर्हन परमेश्वरः ।। योगसारेऽपि निर्मलो निर्ममः शान्तः सर्वज्ञः शुभदः प्रभुः । स एव भगवानेको देवो ज्ञेयो निरञ्जनः ।। व्योमरूपो जगन्नाथः क्रियाकालगुणोत्तरः संसारसृष्टिनिर्मुक्तः सर्वतेजो विलक्षणः ।। केवलज्ञानसम्पूर्णः केवलानन्दसंश्रितः । केवलध्यानगम्यश्च देवेशः सर्वदर्शने ।। अतस्तत्त्वमिदम् भवबीजाङ्कुरजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णु र्वा हरो जिनो वा नमस्तस्मै ।। [महादेवस्तोत्र ४४] ज्ञानतपः पात्रं सयंमी गुरुः । उक्तं च न विद्यया केवलया तपसा वाऽपि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षते ।। [याज्ञवल्क्यस्मृति, १.२००] तथा- ये क्षान्तदान्ताः श्रुतपूर्णकर्मा जितेन्द्रियाः प्राणिवधानिवृत्ताः । परिग्रहे सङ्कुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः ।।१।। [व्यासस्मृति, ४.५८] तथा-विमुक्तं सर्वसंगेभ्यो मुनिमाकाशवत् स्थितम् । स्वस्थमेकचरं शान्तं तं देवा ब्राह्मणं विदुः ।। अहेरिव गणागीतः सन्मानानरकादिव । कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy