SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ . ३२६ विभाग-२, षड्दर्शननिर्णयः अत एव नामादिकदाग्रहं मुक्त्वा गुणोत्कीर्तनद्वारेणैव देवगुरुधर्मतत्त्वानि सर्वैरपि तत्त्वज्ञैः प्रमाणीकृतानि । तद्यथा-वीतरागः परमात्मस्वरूपो भगवान् अर्हन् श्रीसर्वज्ञो देवः । 'ज्ञानतपोभ्यां पात्रतामापन्नः संयमी गुरुः । सर्वज्ञभाषितो दयादिमूलो धर्मः । इत्येतत्-त्रयस्येव ज्ञानश्रद्धाने सम्यक्त्वम् । तदुक्तं श्रीविष्णुपुराणे [६.६.१] स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः । तत्राप्तिकारणं ब्रह्म तदेतदिति पठ्यते ।। तत्र [६.५.६६] देवविषये यत् तदव्यक्तमजरमचिन्त्यमजमव्ययम् । अनिर्देश्यस्वरूपं च पाणिपादाद्यसाम्प्रतम् ।। तदेव भगवद्वाच्यं स्वरूपं परमात्मनः । वाचको भगवच्छब्दस्तस्याद्यस्याक्षयात्मनः ।। [६.५.६८ ] परः पराणां सकला न यत्र क्लेशादयः सन्ति पराऽपरेशे । सर्वेश्वरः सर्वगः सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः ।। स ज्ञायते येन सदस्तदोषः सिद्धः परो निर्मलरूप एकः । तज्ज्ञानमज्ञानमतोऽन्यदुक्तं स दृश्यते वाऽप्यथ गम्यते वा ।। विश्वकर्मणाप्युक्तम् इन्द्रियै न जितो नित्यं केवलज्ञाननिर्मलः । पारं गतो भवाम्भोधेर्यो लोकान्ते वसत्यलम् ।। ज्योतिरूपेण यस्तत्र पुंरूपेणात्र वर्तते । रागद्वेषव्यतिक्रान्तः स एष परमेश्वरः ।।२।। बौद्धैरप्युक्तम् भग्नं मारबलं येन चूर्णितं भवपञ्जरम् । निर्वाणपदमारूढं तं बुद्धं प्रणमाम्यहम् ।। १. ज्ञानमध्ये दर्शनं ज्ञातव्यम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy