________________
विभाग-२, षड्दर्शननिर्णयः
३२३
नैयायिकमते सृष्टिसंहारकारी नित्यः सर्वज्ञाता व्यापकः शिवो देवः । प्रत्यक्षानुमानोपमानागमाश्चत्वारि प्रमाणानि । प्रमाण-प्रमेय-संशय-प्रयोजनदृष्टान्त-सिद्धान्त-अवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-छलजाति-निग्रहस्थानानीति षोडश तत्त्वानि । एतेषां च परिज्ञानान्मोक्षावाप्तिः । नित्यसंवेद्यमानेन सुखेन विशिष्टात्यन्तिको दुःखनिवृत्तिः पुरुषस्य मोक्ष इति । एवं चैते पृच्छयाः । ननु नित्यः सन् शिवः सृष्टिसंहारावेकेन स्वभावेन विधत्ते स्वभावभेदेन वा ? । तत्र न तावदेकस्वभावेनैवेति वक्तुं शक्यम् । सृष्टिसंहारस्वभावयोः प्रद्योतान्धकारयोरिवातीवविरुद्धत्वात् । स्वभावान्तरेण तदा न नित्यः । स्वभावभेदेनाप्रच्युतानुत्पन्नस्थिरैकस्वभावस्य नित्यलक्षणस्य व्याघातात्। अथ नित्य एव भगवान् इच्छावशात् सृजति संहरति चेति । न, काम-क्रोध-लोभदम्भ-गर्व-हर्षरूपोर्मिषट्करहितस्येच्छाया अप्यसंभवात् । किञ्च, सर्वज्ञोऽसौ स्वद्वेषिणः किं सृजति ? न हि शुद्धमार्गोच्छेदाय प्रेक्षावान् प्रवर्तते । अथ पूर्वमद्वेषिणः सृष्टाः पश्चाद् द्वेषिणो जायन्ते, तर्हि नासौ सर्वज्ञोऽनागततद्द्वेषभावाज्ञानात् । तथा यदि ईश्वरकर्तृकं जगत् तदा किंकर्तृक ईश्वर इत्यपि चिन्त्यम् । अनादिनिधनो भगवान् स्वभावसिद्ध इति नान्यकर्तृकस्तर्हि विश्वमपि तथैव स्वभावसिद्धमिति वदतां किं वक्त्रं वक्रीस्यात् । किञ्च नित्यस्य शिवस्य एका मूर्तिस्त्रयो भागा ब्रह्माविष्णुमहेश्वरा इत्यपि न घटते । राजसादि-पृथग्गुणस्य भागत्रयस्य एकत्वनित्यत्वानुपपत्तेः । तथा यद्यसौ सर्वज्ञो व्यापकश्च तदा यत्र जीवस्तत्र शिवः, “सर्वं विष्णुमयं जगद्वा" इति वचनाद्यथा सर्वजन्तूनां व्याप्यत्वं तथा सर्वज्ञत्वमपि किं न स्यात् । अन्यच्च, शिवमयत्वे विष्णुमयत्वे वा जगत आराध्याराधकादिमुक्तामुक्तादिव्यवस्थाऽपि विशीर्येत । तस्माद् एतानि वाक्यानि
एक एव हि भूतात्मा देहे देहे व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचंद्रवत् ।।
[ब्रह्मबिन्दु उपनिषद् १२] 'यादृक् पिण्डे तादृग् ब्रह्माण्डे' इत्यादीनि च शिवादिष्विव सर्वभूतेष्वदुष्टधीप्रतिपादकानि मन्तव्यानि । न चायं शिवः पारदवत् खण्डतामवाप्य नानाभूतेषु
१. इश्व कता अस्य जगत Jain Education International
तकम । २.क: कता Fof Personal & Private Use Only
इश्वरः www.jainelibrary.org