________________
ခဲ့ခုခု
विभाग-२, षड्दर्शननिर्णयः
यूपं छित्त्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गे नरके केन गम्यते ।। इति
(भट्टारकशुकवचनात्) तस्माद् अहिंसा-संयम-तपोरूप आत्मयज्ञ एव स्वर्गादिसाधनम् । उक्तं च
इंद्रियाणि पशून् कृत्वा वेदिं कृत्वा तपोमयीम् ।
अहिंसामाहुतिं दद्यादेष यज्ञः सनातनः ।। सांख्यमते अकर्ता निर्गुणो भोक्ता पुरुषः । गुणत्रयाणां साम्यावस्था प्रकृतिः । सा च प्रधानाव्यक्तसंज्ञाभ्यां वाच्या । प्रकृतेश्च महदुत्पद्यते बुद्धिरित्यर्थः । महतोऽहंकारः । अहङ्काराद् द्विधा-एकादशक-दशकगणरूपा । तत्र एकादशकः - पञ्च बुद्धीन्द्रियाणि पञ्चकर्मेन्द्रियाणि मनश्च । दशकगणश्च शब्द-रूप-गन्ध-रसस्पर्शस्तेभ्यो नभस्तेजः पृथिव्यम्भोवायवः पञ्चभूतानीति पञ्चविंशति तत्त्वानि । तेषां ज्ञानान्मोक्षः । उक्तं च
पञ्चविंशति तत्त्वज्ञो यत्र तत्राश्रमे रतः ।
जटी मुण्डी शिखी वाऽपि मुच्यते नात्र संशयः ।। इति ।। मोक्षश्च प्रकृतिपुरुषयोविभागः । प्रत्यक्षानुमानशब्दानि त्रीणि प्रमाणानि ।
अत्र चायं विचारः । यद्यचेतना प्रकृतिस्तर्हि ततो बोधरूपा बुद्धिः कथमुत्पद्यते । अथ पुरुषाधिष्ठितेति प्रकृतिर्बुद्धिं जनयति तर्हि सा चेतनरूपा बुद्धिः पुरुषधर्म; प्रकृतिधर्मो वा ? पुरुषधर्मश्चेत् कथं प्रकृतित उत्पत्तिः । प्रकृतिधर्मश्चेत् कथं जडरूपप्रकृतेर्ज्ञानरूपबुद्धिधर्मः, विरोधात् । न हि सूर्याज्जायमानः प्रकाशस्तमसो धर्म इति वक्तुं शक्यम् । किञ्च, यद्यकर्ता पुरुषस्तर्हि धर्ममधर्म करिष्यामीति अध्यवसायं को विधत्ते । प्रकृतिश्चेन्न, तस्या अचेतनत्वात् । पुरुषश्चेन्न, तस्याकर्तृकत्वेन संमतत्वात् । ततोऽनादिः संसारोऽनादिः कर्मबद्धो जीव इति तत्त्वम् । “न कदाचिदनीदृशं जगत्" इति वचनप्रामाण्यात् । किञ्च, क्रियां विना तत्त्वज्ञानमात्रेण न हि कस्यापि मोक्षः । भुक्तिक्रियां विना तज्ज्ञानेन तृप्तेरयोगात् । उक्तं च
क्रिया फलप्रदा पुंसां न ज्ञानं केवलं क्वचित् । न हि स्त्रीभक्ष्यभोगज्ञो ज्ञानादेव सुखी भवेत् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org