________________
विभाग-२, षड्दर्शननिर्णयः
,
इत्थं चैवेते नोद्याः । नन्वेष सर्वज्ञो भवता ज्ञातो निषिध्यते अज्ञातो वा । ज्ञातश्चेत् तर्हि तज्ज्ञापकप्रमाणसद्भावात् कथं निषेधः ? | अज्ञातश्चेन्न, अज्ञातस्य घटादेरपि निषेद्धुमशक्यत्वात् । किञ्च सर्वज्ञो नास्तीति यदुच्यते तत् किमत्र देशेऽत्र काले सर्वदेशेषु सर्वकालेषु वा ? आद्यः पक्षोऽस्माकमप्यभिमतः, द्वितीयपक्षे तु यः कोऽपि सर्वदेशसर्वकालगतं सर्वज्ञो नास्तीत्यादिकं स्वरूपं जानाति स एव सर्वज्ञः । ततः कथं सर्वज्ञाभावः । एवं सर्वज्ञसिद्धौ तदुक्ता आगमाः प्रामाण्येन सिद्धा एव, आप्तवचनत्वात् ।।
,
,
तथा वेदा अपौरुषेया इत्यप्ययुक्तम् । यतः शास्त्रं वचनात्मकम्, वचनं च पुरुषताल्वोष्ठादिव्यापारं विना न क्वाप्युपलभ्यते । अतोऽपौरुषेयत्वाभावान्न नित्या वेदाः । किञ्च नित्या वेदाश्चेत्तर्हि किमुपलभ्यभावा अनुपलभ्यभावा वा ? । अत्र पक्षद्वयेऽपि दोषः । नित्यत्वेन सर्वदोपलम्भस्यानुपलम्भस्य वा प्रसंगात् । अन्यथा स्वभावहान्या अनित्यत्वापत्तेः । ततोऽपौरुषेया नित्यास्तु वेदा न भवन्तीति न ते प्रमाणम् । “वेदा अवेदा यज्ञा अयज्ञा" इति श्रुतिप्रामाण्यात् । गीतायामप्युक्तम्
यामिमां पुष्पितां वाचं प्रवदन्ति विपश्चितः । वेदवादरताः पार्थ' नान्यदस्तीति वादिनः ।। कामात्मानः स (स्व) र्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यफलं प्रति ।।
भोगैश्वर्यप्रसक्तानां तयापहतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ।।
३२१
गुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ! | निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् । ( भगवद्गीता २.४२-४५ ) इति । किञ्च, सुधाभुजो देवा अतः कथं गोमेधादिषु हूयमाना गवादिपलं भुञ्जते । एवमेषामपि पलादत्वप्रसंगात् । न च यागादिक्रियाः स्वर्गं साधयन्ति ।
२. हे अर्जुन ! ३. गति इति मुद्रितभगवद्गीतायाम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org