________________
३२०
विभाग-२, षड्दर्शननिणेयः
मोक्षफलोपभोगाभाव इति चेत्, तर्हि सर्वजन्तूनामवसानकालस्वभावेनैव ज्ञानसंतानोच्छेदसम्भवात् स्वयं मोक्षे सति विशिष्टक्रियावैफल्यं भविष्यति । अथ स एव ज्ञानसंतानोऽन्यत्र देहान्तरं सङ्क्रामतीति नावसानकाले मोक्षप्रसङ्ग इति चेन्न, देहान्तरसङ्क्रमणस्यैवाघटनात् । तथाहि-दीपशिखासन्तानोऽपि स्वाधारपात्रं मुक्त्वा न पात्रान्तरे सङ्क्रामति । एवं ज्ञानसन्तानोऽपि स्वाधारदेहं मुक्त्वा नान्यं देहं सङ्क्रामति । कर्मवशात् संक्रामतीति चेन्न, येन ज्ञानक्षणेन पूर्वदेहे कृतं कर्म स स्वकर्म [अ भुक्त्वा विनष्टः । अन्यत्रोत्पित्सुर्ज्ञानक्षणस्तु केन कर्मणा देहान्तरमाप्नोति ? पूर्वज्ञानक्षणकृतकर्मणेति चेन्न, अन्यस्य कर्मणा अन्यस्य फलोपभोगे सर्वविश्ववैसंस्थुल्यापत्तेः ।
केचिन्निखिलवासनोच्छेदे विगतविविधविषयाकारोपप्लवविशुद्धज्ञानोत्पादो मोक्ष इति मन्यते तदप्ययुक्तम् । समलचित्तक्षणानां स्वाभाविक्याः सदृशारम्भणशक्तेरसदृशामलज्ञानक्षणारम्भं प्रत्यशक्तेश्चाकस्मादनुच्छेदात् । तस्मात् सर्वं न क्षणिकम् । किन्तु, अनाद्यनन्तो ज्ञानादिगुणाधारो नित्यो जीवः । उक्तं चजीर्णानि वासांसि यथा विहाय नवानि गृहणाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ।।
[भगवद् गीता २.२२] स च जीवः सर्वकर्मक्षयेऽवाप्तानन्तज्ञानो मुक्तस्वरूपो विजयते । उक्तं चशीवः शिवो शिवो जीवः शिवाज्जीवो न भिद्यते । कर्मबद्धो भवेज्जीवः कर्ममुक्तः सदाशिवः ।। [] ___ तथा मीमांसकानां सर्वज्ञः कोऽपि नास्तीति, तदुक्ता आगमा अपि न सन्ति। ततोऽपौरुषेयत्वेन नित्या वेदा एव प्रमाणम् । तत्र यागादिक्रियां प्रति प्रवर्तकवचोरूपो नोदनालक्षणो धर्मः । प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावरूपाणि षट् प्रमाणानि । ब्रह्मादैतवादिनां चैषामात्मन्यात्मलयो मोक्षः ।
१. तुलना- जीवः शिवः शिवो जीवः स जीवः केवलः शिवः । पाशबद्धः पशुर्देवि पाशमुक्तः सदाशिवः ।।
तुषेण बद्धो व्रीहिः स्यात्तुषाभावे तु तण्डुलम् । कर्मबद्धः सदा जीवः कर्ममुक्तः सदाशिवः ।। –तन्त्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org